शब्दकल्पद्रुमः
भक्तिमान् || [त्] त्रि, (भक्तिरस्यास्तीति । भक्ति + “तदस्यास्त्यस्मिन्निति मतुप् ।” ५ । २ । ९४ । इति मतुप् ।)
भक्तियुक्तः । यथा, —
“गुणवान् पुत्त्रवान् श्रीमान् कीर्त्तिमान् भक्ति- मान् भवेत् । ऐहिके परमैश्वर्य्यमन्ते नाथपदं व्रजेत् ॥” इति शाम्भवीतन्त्रान्तर्गतमहाकालभैरवस्तोत्रम् ॥ अपि च । “अन्येऽपि ये विकर्म्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रसुच्यन्ते कालेन मयि सम्मताः ॥” इति कौर्म्मे ४ अध्यायः ॥