संस्कृत-शब्दकोशः

भक्तिमत् भक्तिरस

भक्तियोग

वाचस्पत्यम्

भक्तियोग ||‍ पु० भक्तिरूपो योगश्चित्तैकाग्रतासाधनम् उपाय- भेदः । भक्तिरूपे योगे भक्तियोगस्य ज्ञानात् श्रैष्ठ्यम् स्वल्पायाससाध्यत्वात् गीतायाम् उक्तं यथा “एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते । ये चाप्य- क्षरगव्यक्तं तेषां के योगवित्तमाः” भू० । “द्वितीयप्रभृति- ष्वध्यायेषु विभूत्यन्तेषु परमात्मनो ब्रह्मणोऽक्षरस्य बि- ध्वस्तसर्वविशेषणस्योपासनमुक्तं सर्वयोगैश्वर्य्यसर्वज्ञानशक्ति- मत्सत्त्वोपाघेरीश्वरस्य तव चोपासनम् । तत्र तत्रोक्तं विश्वरूपाध्याये तु समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितमुपासनार्थमेव त्वया तच्च दर्शयित्वोक्त- वानसि सत्कर्मकृदित्यादिना अहमनयोरुभयोः पक्ष योर्विशिष्टतरबुभुत्सया त्वां पृच्छामीति अर्जुन उ- वाच । एवमिति । एवं सततयुक्ता नैरन्तर्य्येण भगवत्- कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः ये भक्ताः अनन्यशरणाः सन्तस्त्वां यथादर्शितं विश्व- रूपम्पर्य्युपासते ध्यायन्ति ये चाप्यक्षरमिति ये चापि त्यक्तसर्वैषणाः सन्न्यस्तसर्वकर्माणो यथाविशै- षितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरणगो- चरं यद्धि लोके करणगोचरन्तद्व्यक्तमुच्यते अञ्जेर्धा- तोस्तत्कर्मकत्वादिदं त्वक्षरं तद्विपरीतं शिष्टैश्चीच्य- मानैर्विशेषणैर्विशिष्टं तद्ये चापि पर्य्युपासते तेषा- मुभयेषां मध्ये के योगवित्तमाः मे अतिशयेन योगविद इत्यर्थः” भा० । “श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततसा मताः” मू० । “ये त्वक्षरोपासकाः सम्यग्दर्शिनो निवृत्तैषणास्ते तावत्तिष्ठन्तु तान् प्रति यद्वक्तव्य तदु- परिष्टाद्वक्ष्यामः ये त्वितरे मयीति । मयि विश्वरूपे पर- मेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तो मां सर्वयोगेश्वराणामधीश्वरं सर्वज्ञं विसुक्तरागादिक्लेशति- मिरदृष्टिं नित्ययुक्ता अतीतानन्तराध्यायान्तोक्तश्लोकार्थ- न्यायेन सततयुक्ताः सन्त उपासते श्रद्धया परया प्रकृ- ष्टया उपेताः मे भम मताः अभिप्रेता युक्ततमा इति नैरन्तर्य्येण हि ते मच्चित्ततयाहोरात्रमतिवाह- यन्ति अतो युक्तं तान् प्रति युक्ततमा इति वक्तुम्” भा० । “ये त्वक्षरमनिर्देश्यमव्यक्तं पर्य्युपासते । सर्वत्रगमचि- न्त्यञ्च कूटस्थमचलं ध्रुवम्” । “किमितरे युक्ततमा न भवन्ति न, किन्तु तान् पति यद्वक्तव्यन्तत् शृणु ये तु अक्षरमनिर्देश्यमव्यक्तमव्यक्तत्वादशब्दगोचरमिति न नि- र्देष्टुं शक्यते अतोऽनिर्देश्यमव्यक्तं न केनापि प्रमा- णेन व्यज्यत इत्यव्यक्तं पर्य्युपासते परिसमन्तादुपा- सते उपासनं नाम यथाशास्त्रमुपास्यस्य विषयीकर- णेन सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यदासनन्तदुपासनमाचक्षते । अक्षरस्य विशे- षणमाह सर्वत्रगं व्योमवद्व्यापि अचिन्त्यं चाव्यक्तत्वाद- चिन्त्यं यद्धि करणगोचरं तन्मनसापि चिन्त्यं तद्वि- परीतत्वादचिन्त्यमक्षरं कूटस्थं दृश्यमानगुणमन्तर्दोषं वस्तु कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके तथा चाविद्यानेकसंसारवीजमन्तर्दोषं मायाप- कृत्यादिशब्दवाच्यतया “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्” “मम माया दुरत्यया” इत्यादौ प्रसिद्धं यत्तत् कूटं तस्मिन् कूटे स्थितं तदध्यक्षतया । अथ वा राशि- रिव स्थितं कूटस्थमत एवाचलं यस्मादचलं तस्मात् ध्रुवं नित्यसित्यर्थः” भा० । “संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्न वन्ति मामेव सर्वभूतहिते रताः” भू० । “संनियम्येति । संनि- यम्य सम्यक् नियम्य संहृत्य इन्द्रियग्रामं इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धि- र्येषामिष्टानिष्टप्राप्तौ ते समबुद्धयः ते समबुद्धयः ते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः न तेषां वक्तव्यं किञ्चित् मां ते प्राप्नुवन्ति इति ज्ञा- नित्वादात्मैव मे मतमित्युक्तत्वात् न हि भगवत्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम्” भा० । “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” मू० । “किन्तु क्लेशोऽधिकतरो यद्यपि मत्कर्मादिपराणां क्लेशोधिकस्तथापि अधिकतर- स्त्वक्षरात्मनाम् । परमार्थदर्शिनां देहाभिमानपरित्यागनि- मित्तः अव्यक्तासक्तचेतसामव्यक्ते आसक्त चित्तं येषां ते अव्यक्तासक्तचेतसाम् अव्यक्ता हि यस्मादया गतिरक्षरा- त्मिका दुःखं देहवद्भिर्देहाभिमानवद्भिरवाप्यते अतः क्लेशोऽधिकतरः” भा० । “ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः । अनन्येनैव योगेन मां ध्यायन्त उपासते” म० । “अक्षरोपासकानां यद्वर्त्तनं तदुपरि- ष्टाद् वक्ष्यामः ये त्विति । ये तु सर्वाणि कर्माणि मयीश्वरे सन्न्यस्य मत्परा अहं परो येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानमन्यदालम्बनं विश्वरूपं देवमात्मानं मुक्त्वा यस्य सोऽनन्यस्तेनानन्येनैव केवलेन योगेन समाधिना मां ध्यायन्तश्चिन्तयन्त उपासते” भा० । “तेषामहं समुद्धर्त्ता मृत्युसंसारसागरात् । भवामि न चिरात् पार्थ! मय्यावेशितचेतसाम्” । “तेषां किमि- त्याह तेषामिति । तेषां मदुपासनैकपराणाम् अहमीश्वरः समुद्वर्त्ता कुत इत्याह मृत्युसंसारसागरात् मृत्युयुक्तः मसारो मृत्युसंसारः स एव सागरवत् सागरो दुरु- त्तरत्वात् तस्मान्मृत्युसंसारसागरादहं तेषां समुद्धर्त्ता भवामि न चिरात् किं तंर्हि क्षिप्रमेव हे पार्थ! मय्या- वेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतो येषां ते मय्यावेशितचेतसस्तेषाम्” भा० । “मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसि- ष्यसि मय्येव अत ऊर्द्ध्वं न संशयः । अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छ्वाप्तुं धनञ्जय! । अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धि- मवाप्स्यसि । अथैतदप्यशक्तीऽसि कर्त्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मबान् । श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात् कर्म- फलत्यागस्त्यागाच्छान्तिरनन्तरम् । अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःख- सुखः क्षमी । सन्तुष्टः रुततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्योमद्भक्तः समे प्रियः । यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः । अनपेक्षः शुचिर्दक्ष उदासीनोगत- व्यथः । सर्वारम्भपरित्यागी यो भद्भक्तः स मे प्रियः । यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभा- शुभपरित्यागी भक्तिमान् यः स मे प्रियः । समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः । तुल्यनिन्दास्तुतिर्भौनी सन्तुष्टी येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः । ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः” मू० गीता०१२ अ० ।


शब्दकल्पद्रुमः

भक्तियोगः || पुं, (भक्तेर्योगः भक्त्या यो योग इति वा ।)
परमेश्वरे भजनसम्बन्धः । यथा, —
“भक्तियोगप्रकाशाय लोकस्यानुग्रहाय च । सन्न्यासाश्रममाश्रित्य कृष्णचैतन्यनामधृक् ॥” इति चैतन्यभागवतम् ॥ अपि च । “वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम् ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (भक्तियोग उच्यते । यथा, गीतायाम् । १२ । १-२ । १४-२० । “एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥ श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ १४ ॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्व्वारम्भपरित्यागी यो मे भक्तः स मे प्रियः ॥ १६ ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ १७ ॥ समः शत्री च मित्रे च तथामानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्ज्जितः ॥ १८ ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥ १९ ॥ ये तु घर्म्मामृतमिदं यथोक्तं पर्य्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥” २० ॥



Correction: