संस्कृत-शब्दकोशः

भक्तिसूत्र भक्षक

भक्ष

वाचस्पत्यम्

भक्ष ||‍ अदने चु० उभ० सक० सेट् । भक्षयति—ते अबभक्षत्—त तस्य भ्वादित्वमपीत्येके भक्षति अभक्षीत् । उभयपदित्व- मस्येत्यन्ये भक्षते अभक्षिष्ट ।


वाचस्पत्यम्

भक्ष ||‍ पु० भक्ष—भावे कर्मणि वा घञ् । १ अशने २ भक्ष्ये च । “वषट् कर्तुः प्रथमभक्षः” श्रुतिः उञ्छा० अन्तोदात्ततास्य “गावः सोमस्य प्रथमस्य भक्षाः” सि० कौ० धृतश्रुतिः ।


शब्दकल्पद्रुमः

भक्ष || क भक्षे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क भक्षयति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भक्ष || ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।)
ञ भक्षति भक्षते । इति दुर्गादासः ॥



Correction: