संस्कृत-शब्दकोशः

भक्ष भक्षकार

भक्षक

वाचस्पत्यम्

भक्षक ||‍ त्रि० भक्ष—ण्वुल् भक्षणकारके अमरः ।


शब्दकल्पद्रुमः

भक्षकः || त्रि (भक्षयतीति । भक्ष + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।)
खादकः । भक्षण- परः । तत्पर्य्यायः । घस्मरः २ अद्मरः ३ । इत्य- मरः । ३ । १ । १२० ॥ (यथा, हितोपदेशे । १ । १३५ । “भक्ष्यभक्षकयोः प्रीतिर्विपत्तेः कारणं महत् । शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥”)



Correction: