संस्कृत-शब्दकोशः

भक्ष्यालावु भगघ्न

भग

वाचस्पत्यम्

भग ||‍ पु० न० भज + घ । १ सूर्य्ये २ अणिमद्यष्टविधैश्वर्य्ये ३ वीर्य्ये ४ यशसि ५ श्रियां ६ ज्ञाने ७ वैराग्ये ८ योनौ ९ इच्छायाम् १० माहात्म्ये ११ यत्ने मेदि० १२ धर्मे १३ मोक्षे १४ सौ- भाग्ये १५ कान्तौ १६ चन्द्रे च । ज्योतिषोक्ते योनिन- क्षत्रदैवते १७ पूर्वफल्गुनानक्षत्रे १८ गुह्ममुष्कयोर्मध्यस्थाने च पु० । आद्युदात्ततास्य । १९ धने २० पदे च न० निघण्टुः । भगबच्छब्दे दृश्यम् । स्त्रीचिह्नस्य लक्षणभेदादिकं यथा “विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम्” “कूर्मपृष्ठं गज- स्कन्धं पद्मगन्धं सुकोमलम् । अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः । शीतलं निम्नमत्युष्णं गोजिह्वा- सदृशं परम्” रतिमञ्जरी ।


शब्दकल्पद्रुमः

भगं || क्ली पुं, (भज्यते अनेनास्मिन् वेति एतदा- श्रित्यैव कन्दर्पं सेवते इति भावः । भजसेवा- याम् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । “खनो घ च ।” ३ । ३ । १२५ । घित्करणमन्यतोऽप्ययमिति विज्ञापनार्थम् इति वृत्तिकृद्भट्टोजीदीक्षितः ।)
स्त्रीचिह्नम् । तत्- पर्य्यायः । योनिः २ । इत्यमरः । २ । ६ । ७६ ॥ वरा- ङ्गम् ३ उपस्थः ४ स्मरमन्दिरम् ५ । इति राज- निर्घण्टः ॥ (भजन्त्यनेनेति भगो मेहनम् । भज- न्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्वयमपि कथ्यते । इति भावप्रकाशस्य मध्यखण्डे चतुर्थे भागे ॥ “ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्य्यस्तथाश्विनौ । भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥)
रतिगृहम् ६ जन्मवर्त्म ७ अधरम् ८ अवाच्य- देशः ९ प्रकृतिः १० अपथम् ११ स्मरकूपः १२ अप्रदेशः १३ प्रकूतिः १४ पुष्पी १५ संसारमार्गः १६ गुह्यम् १७ स्मरागारम् १८ स्मरध्वजम् १९ रत्यङ्गम् २० रतिकुहरम् २१ कलत्रम् २२ अधः २३ । इति शब्दरत्नावली ॥ तस्य लक्ष- णम् । यथा, —
“विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम् ।” तद्गुणा यथा, —
“कूर्म्मपृष्ठं गजस्कन्धं पद्मगन्धं सुकोमलम् । अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः ॥” तद्दोषा यथा, —
“शीतलं निम्नमत्युष्णं गोजिह्वासदृशं परम् । इत्युक्तं कामशास्त्रज्ञैर्भगदोषचतुष्टयम् ॥ विस्तीर्णे मुषलं योज्यं गभीरे वंशबीजकम् ।” इति रतिमञ्जरी ॥ तस्य शुभाशुभलक्षणम् । यथा, —
“शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः । वामोन्नतस्तु कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥ आखुरोमा गूढमणिः स्वाश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः । रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥ शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति । चिपिटः कर्पराकारः किङ्करीपददो भगः ॥ वंशवेतसपत्राभो गजरोमोच्चनासिकः । विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥” इति स्कान्दे काशीखण्डे ३७ अध्यायः ॥ श्रीः । वीर्य्यम् । इच्छा । ज्ञानम् । वैराग्यम् । कीर्त्तिः । माहात्म्यम् । ऐश्वर्य्यम् । (यथा, भागवते । २ । ७ । ९ । “यद्वेणमुत्पथगतं द्विजवाक्यवज्र- निष्प्लुष्टपौरुषभगं निरये पतन्तम् ॥” “निष्प्लुष्टं दग्धं पौरुषं भगमैश्वर्य्यञ्च यस्य ।” इति तट्टीकायां स्वामी ॥)
यत्नः । धर्म्मः । मोक्षः । इति मेदिनी । गे, १४ ॥ पुंसां गुदमुष्क- मध्यभागः । इति राजनिर्घण्टः ॥ श्रीः । यशः । सौभाग्यम् । (यथा, भागवते । १ । १७ । १० । “यस्य राष्ट्रे प्रजाः सर्व्वास्त्य्रस्यन्ते साध्व्य- साधुभिः । तस्य मत्तस्य नश्यन्ति कीर्त्तिरायुर्भगो गतिः ॥” “भगो भाग्यम् ।” इति तट्टीकायां स्वामी ॥)
कान्तिः । सूर्य्यः । शम्भुविशेषः । चन्द्रः । इत्य- नेकार्थध्वनिमञ्जरी ॥ पूर्ब्बफल्गुनीनक्षत्रम् । यथा, ज्योतिस्तत्त्वे । “अक्षतामाषयुक्ताश्च भगे सर्पिस्तदुत्तरे ॥”


शब्दकल्पद्रुमः

भगः || पुं, (भज्यते इति । भजसेवायां + “पुंसि संज्ञायां घ प्रायेण ।” ३ । ३ । ११८ । इति घ । “खनो घ च ।” ३ । ३ । १२५ । इति घित्करणाद् वा घ ।)
रविः । इति मेदिनी ॥ गे, १४ । क्लीवेऽप्ययम् । यथा, —
“ज्ञानवैराग्ययोर्योनौ भगमस्त्री तु भास्करे ।” इति रुद्रः ॥” (भजनीये, त्रि । यथा, ऋग्वेदे । ३ । ३६ । ५ । “इन्द्रो भगो वाजदा अस्य गावः प्रजायन्ते दक्षिणा अस्य पूर्ब्बी ॥” “भगः सव्वैर्भजनीयः स इन्द्रः ।” इति तद्भाष्ये सायनः ॥ द्वादशादित्यभेदः । यथा, ऋग्वेदे । २ । २७ । १ । “इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्य्यमा भगो नस्तुवि जातो वरुणो दक्षो अंशः ॥” यथा च महाभारते । १ । ६५ । १५-१६ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥” रुद्रांशो वीरभद्रोऽस्य भगस्य दक्षयज्ञेनेत्रे उत्- पाटितवान् । यथा, भागवते । ४ । ५ । १८ । “भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥” ऐश्वर्य्यादिषट्कम् । यदुक्तम् । “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” भोगास्मदत्वम् । यथा, भागवते । १ । १६ । २९ । “प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्य्यं स्थैर्य्यमास्तिक्यं कीर्त्तिर्मानोऽनहं- कृतिः ॥ “भगः भोगास्पदत्वम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ स्थूलमण्डलाभिमानी । यथा, रामा- यणे । ३ । १२ । १८ । “विष्णोः स्थानं महेन्द्रस्य स्थानञ्चैव विवस्वतः । सोमस्थानं भगस्थानं स्थानं कौवेरमेव च ॥” “भगः स्थूलमण्डलाभिमानी ।” इति तट्टीकायां रामानुजः ॥)



Correction: