वाचस्पत्यम्
भगघ्न || पु० भगं तन्नेत्रं हन्ति हन—टक् । १ महादेवे “नमस्ते त्रिपुरघ्नाय भगघ्नाय नमो नमः” भा० द्रो० २०३ अ० तस्य दक्षयज्ञकाले तन्नेत्रहारित्वात् तथात्वम् ।