संस्कृत-शब्दकोशः

भगनेत्रघ्न भगभक्त

भगन्दर

वाचस्पत्यम्

भगन्दर ||‍ पु० भगं गुह्ममुष्कमध्यस्थानं दारयति दृ—णिच्—खश् मुम् खचि ह्रस्वश्च । स्वनामख्याते रोगभेदे । भावप्र० तन्नि- दाननिरुक्त्यादिकमुक्तं यथा “अथ भगन्दरस्य पूर्वरूपसहितं स्वरूपमाह । “कटीक- पालयोस्तोददाहकण्डूरुजादयः । भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे । गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पीडकार्त्तिकृत् । भिन्नो भगन्दरो ज्ञेयः स च पञ्च- विधो भवेत्” । आर्त्तिकृत् पीडाकृत् । पञ्चविधः वाति- कपैत्तिकश्लैष्मिकसान्निपातिकशल्यजभेदैः । अथ गन्दर- शब्दस्य निरुक्तिमाह भोजः “भगन्दरः समन्ताच्च गुदं वस्तिं तथैव च । भगवद्दारयेद्यस्मात् तस्मादेष भग- न्दरः” । भजन्त्यनेनेति भगो मेहनम् । भजन्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्वयमपि कथ्यते । भगवत् योनिवत् । अथ वातिकं शतपोनकसंज्ञं भग- न्दरमाह । “कषायरूक्षैरतिकोपितोऽनिलस्त्वपानदेशे पि- डकां करोति याम् । उपेक्षणाद्वातमुपैति दारुणं रुजा च भिन्नारुणफेनवाहिनीम् । तत्रागमो मूत्रपुरीष- रेतसां व्रणैरनेकैः शतपोनकं वदेत्” । दारुणम् अति- दारुणरुक् । व्रणैरनेकैः सूक्ष्ममुखैः । शतपोनकं शत- पोनकश्चालनी तत्तुल्यम् । अथ पैत्तिकमुष्ट्रग्रीवसंज्ञमाह “प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम् । तदाशुपाकां हिमपूतिवाहिनीं भगन्दरं चोष्ट्रशिरोधरं वदेत्” । आशुपाकां हि मपूतिवाहिनीं शीघ्रपाकामुष्ट्रदुर्गन्धवाहिनीं च । तदा भगन्दरमुष्ट्र- शिरीधरं वदेत् । उष्ट्रग्रीवसंज्ञा च पिडकागलेन वक्रतयोष्ट्रग्रीवाकत्वेन । अथ श्लैष्मिकं परिस्राविसंज्ञ- माह । “कण्डूयनो घनस्रावी कठिनो मन्दवेदनः । श्वेतावभासः कफजः परिस्रावी भागन्दरः” । कठिनः पिडकावस्थायाम् । परिस्रावी निरन्तरस्रावशीलः । अथ सान्निपातिकं शम्बूकावर्त्तसंज्ञमाह । “बहुवर्णरुजा स्रावा पिडका गोस्तनोपमा । शम्बूकावर्त्तगतिकः शम्बू- कावर्त्तकीमतः” बहुवर्णरुजास्रावा बहुशब्दो वर्णा- दिभिः प्रत्येकं संवध्यते गतिः स्रावमार्गः । अथ शल्यज- मुन्मार्गसंज्ञमाह । “क्षताद्गतिः पायुगता विवर्द्धते ह्युपेक्षणात् स्यः कृमयो विदार्य्य ते । प्रकर्वते मार्गमने- कधामुखैर्व्रणैस्तमुन्मार्गभगन्दरं वदेत्” । क्षतात् कण्ट- कादिना नखेन कण्डूयनादिना वाऽभिघातात् । गतिः स्रावः उन्मार्गभन्दरम् एतस्य तिर्य्यककृतभार्गैः पुरी- षादिनिर्गमादुन्मर्गसंज्ञ” । कष्टसाध्यमसाध्यञ्चाह “घोराः साधयितुं दुःखा सर्व एव भगन्दराः । तेष्वसाध्यस्त्रिदो- षोत्थः क्षतजश्च विशेषतः । वातमूत्रपुरीषाणि वक्रञ्च कृमयस्तथा । भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्” ।


शब्दकल्पद्रुमः

भगन्दरः || पुं, (भगं गुह्यमुष्कमध्यस्थानं दारय- तीति । “दृ + णिच् + पूःसर्व्वयोर्दारिसहोः ।” २ । २ । ४१ । इत्यत्र । “भगे च दारेरिति वक्त व्यम् ।” इति काशिकोक्तेः खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ । इति ह्रस्वः । मुम्च ।)
अपानदेशे व्रणरोगविशेषः । तस्य रूपमाह । “गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकार्त्तिकृत् । भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् ॥” अर्त्तिकृत् पीडाकृत् । पञ्चविधः वातकपैत्तिक- श्लैष्मिकसान्निपातिकशल्यजभेदैः ॥ भगन्दर- शब्दस्य निरुक्तिमाह भोजः । “भगं परिसमन्ताद्यो गुदवस्ती तथैव च । भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः ॥” भजन्त्यनेनेति भगं मेहनम् । भजन्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्बयमपि कथ्यते । भगवत् योनिवत् ॥ पूर्ब्बरूपादीनि यथा, —
“कटीकपालनिस्तोददाहकण्डुरुजादयः । भवन्ति पूर्ब्बरूपाणि भविष्यति भगन्दरे ॥” कटीकपालमत्र कटीफलकम् ॥ वातिकं शत- पोनकसंज्ञं भगन्दरमाह । “कषायरूक्षैरतिकोपितोऽनिल- स्त्वपानदेशे पिडकां करोति याम् । उपेक्षणात् पाकमुपैति दारुणं रुजाञ्च भिन्नारुणफेनवाहिनीम् ॥ तत्रागमो मूत्रपुरीषरेतसां ब्रणैरनेकैः शतपोनकं वदेत् । दारुणं अतिदारुणात् । व्रणैरनेकैः सूक्ष्ममुखैः । शतपोनकश्चालनी तत्तुल्यम् ॥ पैत्तिकमुष्ट्रग्रीव- संज्ञमाह । “प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम् । तदाशुपाकाहिमपूतिवाहिनीं भगन्दरञ्चोष्ट्रशिरोधरं वदेत् ॥” आशुपाकाहिमपूतिवाहिनीम् । शीघ्रपाकाम् उष्मदुर्गन्धवाहिनीञ्च । तदा तं भगन्दरं उष्ट्र- शिरोधर उष्ट्वग्रीवसंज्ञं वदेत् । उष्ट्रग्रीव- संज्ञञ्च । पिडकाकालीनवक्रतयोष्ट्रग्रीवाकार- त्वेन ॥ * ॥
श्लैष्मिकपरिस्राविसंज्ञमाह । “कण्डूयनो घनस्रावी कठिनो मन्दवेदनः । श्वेतावभासः कफजः परिस्रावी भगन्दरः ॥” कठिनः पिडकावस्थायां परिस्रावी निरन्तरं स्रवणशीलः ॥ * ॥
सान्निपातिकशम्बूकावर्त्त- संज्ञमाह । “बहुवर्णरुजास्रावाः पिडका गोस्तनोपमाः । शम्बूकावर्त्तवन्नाडी शम्बूकावर्त्तको मतः ॥” बहुवर्णरुजास्रावाः बहुशब्दो वर्णादिभिः प्रत्येकं सम्बध्यते । नाडी स्रावमार्गः ॥ * ॥
शल्यजमुन्मार्गसंज्ञमाह । “क्षताद्गतिः पायुगताद्बिवर्द्धते ह्युपेक्षणात् स्युः कृमयो विदाय्यंते । प्रकुर्व्वते मार्गमनेकधा मुखै- व्रणैस्तमुन्मार्गभगन्दरं वदेत् ॥ क्षतात् कण्टकादिना नखेन कण्डूयनादिना वाभिघातात् । गतिः स्रावः उन्मार्गभगन्दरम् । एतस्य कृमि- कृतमार्गैः पुरीषादिनिर्गमादुन्मार्गसंज्ञा ॥” कष्टसाध्यमसाध्यञ्चाह । “घोराः साधयियुं दुःखाः सर्व्व एव भग- न्दराः । तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ॥ वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा । भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ॥” अथ भगन्दरस्य चिकित्सा । यथा, —
“अथास्य पिडकामेव तथा यत्नादुपाचरेत् । शुद्ध्यस्रस्रुतिसेकार्त्तैर्यथा पाकं न गच्छति ॥ पुनर्नवामृताशुण्ठीपिष्टिकावदरैः कृतः । लेपाय पिडकावस्थे कल्कः शस्तो भगन्दरे ॥ पयःपिष्टैस्तिलारिष्टमधुकैः शीतलैः कृतः । लेपो भगन्दरे शस्तः पैत्तिके वेदनावति ॥” अरिष्टो निम्बः ॥ “सुमनायाश्च पत्राणि गुडूची विश्वभेषजम् । सैन्धवं तक्रसंपिष्टं लेपाद्धन्ति भगन्दरम् ॥” सुमना जातिस्तस्याः पत्रम् । “पिडकानामपक्वानामपतर्पणपूर्ब्बकम् । कर्म्म कुर्य्याद्विरेकान्तं भिन्नानां व्रणवत् क्रिया ॥ निशार्कक्षीरसिन्धूत्थपुराश्वहननच्छदैः । सिद्धमभ्यञ्जने तैलं भगन्दरहरं परम् ॥” पुरो गुग्गुलुः । अश्वहननच्छदाः करवीर- पत्राणि । निशादितैलम् ॥ * ॥
“त्रिफलापुरकृष्णानां त्रिपञ्चांशैकयोगिता । गुटिका शोथगुल्मार्शोभगन्दरवतां हिता ॥” नववार्षिको गुग्गुलुः ॥ * ॥
“शस्त्रक्रियापि कथिता शस्त्रसाध्ये भगन्दरे । सा च तेनैव कर्त्तव्या शस्त्रशास्त्रमवैति यः ॥ व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च । रूढव्रणेऽपि यत्नेन वर्जयेद्बत्सरं नरः ॥” इति भावप्रकाशे भगन्दराधिकारः ॥ अपि च । “लङ्घनं स्वेदनं लेपविम्लापनविरेचनैः । रक्तमोक्षादिभिः शीघ्रं गुदजां पिडकां जयेत् ॥ तथा यत्नं भिषक् कुर्य्याद्यथा पाकं नियच्छति । अपक्वं वाथ पक्वं वा जलौकापातनं हितम् ॥ तदभावे तु शृङ्गाभ्यामिदं रक्तस्य मोक्षणम् ॥” वटपत्राष्टकाशुण्ठीगुडूच्यः सपुनर्नवाः । पिष्ट्वा तु पिडकारम्भे लेपः शस्तो भगन्दरे ॥ आमावस्थाक्रिया प्रोक्ता पक्वावस्थाक्रियोच्यते ॥ त्र्युषणापाटलाक्षारवह्निदाहादिकं क्रमम् । विधाय व्रणवत् कार्य्यं यथा दोषो यथा बलम् ॥ स्नुह्यर्कदुग्धदार्व्वीभिर्वर्त्तिं कृत्वा भगन्दरे । दद्यात् सर्व्वशरीरस्था नाडीर्हन्यात् प्रयोगराट् ॥ तिलाभयालोध्रमरिष्टपत्रं निशा वचा कुष्ठमगारधूमः । भगन्दरे नाड्युपदंशयोश्च दुष्टव्रणे शोधनरोपणोऽयम् ॥ शुनोऽस्थिघृष्टं त्रिफलारसेन विडालकास्थि त्वथवा विलेपनात् । चिरप्रभूतं व्रणरोगदुष्टं भगन्दरं नाशमुपैति नूनम् ॥ * ॥
जम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः ॥” शृगालमांसव्यञ्जनं खाद्यम् । अथवा शम्बक- मांसव्यञ्जनं खाद्यम् ॥ “त्रिकटु त्रिफला मुस्तं विडङ्गामृतचित्रकम् । शट्येला पिप्पलीमूलं हवुषा सुरदारु च ॥ तुम्बुरुं पुष्करं चव्यं विशाला रजनीद्वयम् । विडं सौवर्च्चलक्षारौ सैन्धवं गजपिप्पली ॥ यावन्त्येतानि चूर्णानि तावद्द्विगुणगुग्गुलुः । कोलप्रमाणां गुटिकां खादयेन्मधुना सह ॥ भगन्दरं श्वासकासं क्षयं जीर्णज्वरोदरम् । नाडीदुष्टव्रणानाहकुष्ठोन्मादाश्मरीक्रमीन् ॥ मेहान्त्रवृद्धिहृद्रोगशूलं श्लीपदमेव च । सप्तविंशतिको हन्ति गुग्गुलुः सर्व्वरोगहा ॥” हृद्रोगशूलमित्यत्र हृतपार्श्वशूलमित्यपि पाठः ॥ सप्तविंशतिगुग्गुलुः ॥ * ॥
“चित्रकार्कौ त्रिवृत्पाठौ मलपूहयमारकौ । सुधां वचां लाङ्गलिकां हरितालं सुवर्च्चलाम् ॥ ज्योतिष्मतीञ्च संहृत्य तैलं वैद्यो विपाचयेत् । एतद्बिस्यन्दनं नाम तैलमुक्तं भगन्दरे ॥ शोधनं रोपणञ्चैव सुवर्णकरणं स्मृतम् ।” विष्यन्दनतैलम् ॥ * ॥
“सूतस्य द्बिगुणेन शुद्धवलिना कन्यापयोभि- स्त्र्यहं पिष्ट्वा ताम्रमयं समस्ततुलितं पात्रं विधायोपरि । स्वेद्यं यामयुगं सभस्मपिठरे जम्बूजलैः सप्तधा सार्द्धं तत्पुटयेत् भगन्दरहरो गुञ्जोन्मिता स्यादिति ॥” जम्बूजलैरित्यत्र निम्बूजलैरिति च पाठः । भगन्दरहरो रसः ॥ * ॥
“शुद्धसूतं समं गन्धं मृतनागं सतुत्थकम् । जीरकं सैन्धवं तुल्यं तिक्तकोषातकीद्रवैः ॥ पिष्ट्वा तल्लेपनाद्धन्ति भक्षणाच्च भगन्दरम् । रसः कालाग्रिरुद्रोऽयं गुञ्जैकं मृत्युजिद्भवेत् ॥” कालाग्निरुद्रो रसः ॥ * ॥
इति सारदीपिकायां भगन्दरचिकित्साध्यायः ॥ अपि च । गारुडे १८८ अध्याये । “गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भग- न्दरः ॥” (अस्य सकारणलक्षणचिकित्सितं यथा, — क्रिम्यस्थि सूक्ष्मलक्षणनव्यवाय- प्रवाहनान्युत्कटकाश्वपृष्ठैः । गुदस्य पाके पिडका भृशार्त्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात् ॥ विरेचनञ्चैषणपाटनञ्च विशुद्धमार्गस्य च तैलदाहः । स्यात् क्षारमूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा ॥” इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)



Correction: