शब्दकल्पद्रुमः
भग्नपादर्क्षं || क्ली (भग्नपदं ऋक्षम् ।)
पुष्कराख्य- नक्षत्रषट्कम् । यथा, —
“पुनर्व्वसूत्तराषाढा कृत्तिकोत्तरफल्गुनी । पूर्ब्बभाद्रं विशाखा च षडेते पुष्कराः स्मृताः ॥ भग्नपादर्क्षसंयोगात् द्बितीया द्बादशी यदि । सप्तमी चार्कमन्दारे जायते जारजो ध्रुवम् ॥” इति ज्योतिस्तत्त्वम् ॥