वाचस्पत्यम्
भग्नपृष्ठ || त्रि० भग्नं पृष्ठं यस्य । १ मुटितपृष्ठके २ सम्मुखे च त्रिका० ।
शब्दकल्पद्रुमः
भग्नपृष्ठः || पुं, (भग्नं पृष्ठमस्मिन् ।)
सम्मुखः । इति त्रिकाण्डशेषः ॥ मुटितमेरुदण्डः । यथा, —
“भग्नपृष्ठकटिग्रीवं स्तब्धदृष्टि ह्यधोमुखम् । कष्टेन लिखितं पुस्तं यत्नेन परिपालयेत् ॥” इति प्राचीनवाक्यम् ॥ (भग्नं पृष्ठं यस्य । मुटितमेरुदण्डे, त्रि ॥)