वाचस्पत्यम्
भग्नप्रक्रम || पु० भग्नः प्रक्रमो यत्र । काव्यगते वाक्यदोषभेदे ३७६३ । ६४ पृ० दोषशब्दे दृश्यम् । तदुदाहरणं सा० द० “एवमुक्तो मन्त्रिमुख्यैर्रावणः प्रत्यभाषत” अत्र वच- धातुना प्रकान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन “रावणः प्रत्यवोचतेति” पाठो युक्तः । एवञ्च सति न कथितपदत्पदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात् इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिर्देश्यत्वम् । यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र । यदि पदान्तरेण स एवार्थः पतिपाद्यते तदान्योऽर्थ इव प्रतिभासमानः प्रतीतिं स्थगयति । यथा वा । “ते हि- मालयमामन्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धञ्चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” । अत्र “अस्मा इति” इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । यथा वा । उदन्व- च्छिन्ना भूः स च पतिरपां योजनशतम्” । अत्र “मिता भूः पत्यापां स च पतिरपामिति” युक्तः पाठः । एवं “यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्त्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः अत्र सखमीहितुमित्युचितम् । अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्य्यायविषयः चतुर्थे प्रत्ययविषयः” ।