संस्कृत-शब्दकोशः

भग्नपादर्क्ष भग्नप्रक्रम

भग्नपृष्ठ

वाचस्पत्यम्

भग्नपृष्ठ ||‍ त्रि० भग्नं पृष्ठं यस्य । १ मुटितपृष्ठके २ सम्मुखे च त्रिका० ।


शब्दकल्पद्रुमः

भग्नपृष्ठः || पुं, (भग्नं पृष्ठमस्मिन् ।)
सम्मुखः । इति त्रिकाण्डशेषः ॥ मुटितमेरुदण्डः । यथा, —
“भग्नपृष्ठकटिग्रीवं स्तब्धदृष्टि ह्यधोमुखम् । कष्टेन लिखितं पुस्तं यत्नेन परिपालयेत् ॥” इति प्राचीनवाक्यम् ॥ (भग्नं पृष्ठं यस्य । मुटितमेरुदण्डे, त्रि ॥)



Correction: