शब्दकल्पद्रुमः
भग्नात्मा || पुं, (भग्नः क्रमेण हीन आत्मा देहो यस्य । कृष्णप्रतिपदादिक्रमेणैकैककलाच्छेदेन भग्नदेहत्वादस्य तथात्वम् ।) चन्द्रः । इति शब्दचन्द्रिका ॥