वाचस्पत्यम्
भग्नाश || त्रि० ६ त० । १ हताशे इष्टविषयाया इच्छायाः प्रति- घातयुक्ते ।
शब्दकल्पद्रुमः
भग्नाशः || त्रि (भग्ना आशा यस्य । हताशः । दीर्घतृष्णाभङ्गयुक्तः । यथा, —
“अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥” इत्याह्रिकतत्त्वम् ॥