शब्दकल्पद्रुमः
भङ्क्ता || [ऋ] त्रि, भङ्गकर्त्ता । भन्जधातोः कर्त्तरि तृन्प्रत्ययेन निष्पन्नः ॥ (यथा, मनौ । ९ । २८९ । “प्राकारस्य च भेत्तारं परिखानाञ्च पूरकम् । द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥”