वाचस्पत्यम्
भङ्ग || पु० भन्ज—भावादौ घञ् । १ तरङ्गे अमरः २ पराजये । ३ खण्डे ४ रोगभेदे मेदि० ५ कौटिल्ये ६ भये ७ पत्ररचनाभेदे हेम० । ८ गमने ९ जलनिर्गमे च अजयपालः १० मातुला- याम्, अमरः । ११ शणाख्ये १२ शस्ये त्रिवृतायां (तेउडी) १३ विजयायाञ्च (भाङ्) स्त्री । १४ रोगमात्रे पु० राजनि० ।
शब्दकल्पद्रुमः
भङ्गः || पुं, (भज्यते इति । भञ्ज + कर्म्मणि घञ् ।)
तरङ्गः । इत्यमरः । १ । १० । ५ ॥ पराजयः । (भन्ज् + भावे घञ् ।)
भेदः । रोगविशेषः । इति मेदिनी । गे, १३ ॥ (रोगविशेषार्थे यथा, —
“पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां सन्ध्यसन्धितः । प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता ॥ इतरस्मिन् भृशं शोफः सर्व्वावस्थास्वतिव्यथा । अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता ॥ समासादिति भङ्गस्य लक्षणं बहुधा तु तत् । भिद्यते भङ्गभेदेन तस्य सर्व्वस्य साधनम् ॥ यथास्यादुपयोगाय तथा तदुपदेक्ष्यते । प्राप्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत् । यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः । भग्नं यच्चाभिधातेन किञ्चिदेवावशेषितम् ॥ उन्नम्यमानं क्षतयत् यच्च मज्जति मज्जति । तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि ॥ भिन्नं कपालं यत्कट्यां सन्धिमुक्तं च्युतञ्च यत् । जघनं प्रतिपिष्टञ्च भग्नं यत्तद्विवर्ज्जयेत् ॥ असंश्लिष्टकपालञ्च ललाटं चूर्णितन्तथा । यच्च भग्नं भवेच्छङ्खशिरः पृष्ठस्तनान्तरे । सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् ॥ संक्षोभादपि यद्गच्छेद्विक्रियां तद्बिवर्ज्जयेत् । आदितो यच्च दुर्ज्जातमस्थिसन्धिरथापि वा ॥ तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥ कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा । अथावनतमुन्नम्यमुन्नतञ्चावपीडयेत् ॥ आञ्छेदतिक्षिप्तमधो गतञ्चोपरि वर्त्तयेत् । आञ्छनोत्पीडनोन्नामचर्म्मसंक्षपबन्धनैः ॥ सन्धीन् शरीरगान् सर्व्वान् चलानप्यचलानपि । इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्चलम् ॥ पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः । कदम्बोदुम्बराश्वत्थसर्ज्जार्ज्जुनपलाशजैः ॥ वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः । सुश्लक्ष्णैः सुप्रतिस्तम्भैर्बल्कलैः शकलैरपि ॥ कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् । शिथिलेन हि वन्धेन सन्धेः स्थैर्य्यं न जायते । गाढेनातिरुजादाहपाकश्वयथुसम्भवः । त्र्यहात्त्र्यहादृतौ घर्म्मे सप्ताहान्मोक्षयेद्धिमे ॥ साधारणे तु पञ्चाहाद्भङ्गदोषवशेन वा । न्यग्रोधादिकषायेण ततः शीतेन सेचयेत् ॥ तं पञ्चमूलपक्वेन पयसा तु सवेदनम् । सुखोष्णं वावचार्य्यं स्याच्चक्रतैलं विजानता ॥ विभज्य देशं कालञ्च वातघ्नौषधसंयुतम् । प्रततं सेकलेपांश्च विदध्याद्भृशशीतलान् ॥ गृष्टिक्षीरं स सर्पिष्कं मधुरौषधसाधितम् । प्रातः प्रातः पिबेद्भग्नः शीतलं लाक्षया युतम् ॥ सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः । कषायैः प्रतिसार्य्योऽथ शेषो भङ्गोदितः क्रमः ॥ लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा । सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत् ॥ तान् समान् सुस्थिताज्ज्ञात्वा फलिनीरोध्र- कट्फलैः । समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् ॥ धातकीरोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः । इति भङ्ग उपक्रान्तः स्थिरधातोरॄतौ हिमे ॥ मांसलस्याल्पदोषस्य सुसाध्यो दारुणोऽन्यथा । पूर्ब्बमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात् ॥ मासैः स्थैर्य्यं भवेत् सन्धेर्यथोक्तं भजतो विधिम् । कटीजङ्घोरुभग्नानां कपाटशयनं हितम् ॥ यन्त्रणार्थं तथाकीलाः पञ्च कार्य्या निबन्धनाः । जङ्घोर्व्वोः पार्श्वयोर्द्बौ द्बौ तल एकश्च कीलकः ॥ श्रोण्यां वा पृष्ठवंशे वा वक्त्रस्याक्षकयोस्तथा । विमोक्षे भग्नसन्धीनां विधिमेवं समाचरेत् ॥ सन्धींश्चिरविमुक्तांश्च स्निग्धस्विन्नान् मृदूकृतान् । उक्तैर्विधानैर्बुद्ध्या च यथास्वं स्थानमाचरेत् ॥ असन्धिभग्ने रूढे तु विषमोल्वणसाधिते । आपोथ्य भङ्गं यमयेत्ततो भग्नवदाचरेत् ॥ भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् । पक्वमांससिरास्नायुसन्धिः श्लेषं न गच्छति ॥ वातव्याधिविनिर्द्दिष्टान् स्नेहान् भग्नस्य योजयेत् ॥” इति वाभटे उत्तरस्थाने । २७ अध्यायः ॥)
कौटिल्यम् । भयम् । विच्छित्तिः । इति हेम- चन्द्रः ॥ (विच्छित्त्यर्थे व्यवहारो यथा, —
“षड्धातुविभागो वियोगः सजीवापगमः सप्राणनिरोधः स भङ्गः स्वलोकस्वभावः । इति चरके शारीरस्थाने पञ्चमेऽध्याये ॥)
रोगमात्रम् । इति राजनिर्घण्टः ॥ गमनम् । जलनिर्गमः । इत्यजयपालः ॥ (नागभेदः । यथा, महाभारते । १ । ५७ । ९ । “उच्छिखः शरभा भङ्गो विल्वतेजा विरोहणः ॥”)