भङ्गि
भङ्गी
भङ्गिमन्
वाचस्पत्यम्
भङ्गिमन् || पु० भङ्ग + बा० स्वार्थे इमनिच् । भङ्ग्याम् ।
शब्दकल्पद्रुमः
भङ्गिमा || [न्] पुं, (भङ्ग + बाहुलकात् स्वार्थे इमनिच् ।)
भङ्गिः । यथा, —
“अधरे कज्जलं चारु दृशोस्ताम्बूलरङ्गिमा । प्राणनाथ ! किमेतत्ते वेशविन्यासभङ्गिमा ॥” इति काव्यचन्द्रिका ॥