संस्कृत-शब्दकोशः

भटित्र भट्टाचार्य

भट्ट

वाचस्पत्यम्

भट्ट ||‍ पु० भट—तन् । स्तुतिपाठवृत्तियुते (भाट) १ जातिभेदे “वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह । स भटौ धावदूकश्च सर्वेसां स्तुतिपाठकः” ब्रह्मवै० ब्रह्मख० ७ अ० “क्षत्रियाद्विप्रकन्यायां भट्टी क्षातोऽनुवाचकः” । तेन- द्विविधा जातिः । २ स्यामित्वे, ३ वेदाभिज्ञे ३ पण्डिते च । भट्टश्च तुतातभिधः मीमांसकभेदः तन्मतं च १०१ पृ० दर्शितम् । दिग्मात्रं सौगाक्षिभास्करेण दर्शितं यथा “स च यागादिर्वजेत स्वर्गकाम इत्यादि वाक्येन स्व- र्गमुद्दिश्य पुरुषं प्रति विधीयते । तथाहि यजेते- त्यत्रास्त्यंशद्वयं यजिघातुः प्रत्ययश्च । प्रत्ययेऽप्यस्त्यंश- द्वयमाख्यातत्वं लिङ्त्वञ्च । तत्राख्यातत्वं दशलकार- साधारणं, लिङ्त्वं पुनर्लिङ्मात्रे । उभाभ्यामप्यं- शाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवनानु- कूलोव्यापारविशेषः । सा द्विधा—शाब्दी आर्थी चेति । तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुर्व्यापारविशेषः शाब्दी भावना । सा च लिङंशेनोच्यते लिङश्रवणेऽयं मां प्रवर्त्तयति मत्प्रवृत्यनुकूलव्यापारवानिति नियमेन प्रतीतेः । यद्यस्माच्छब्दान्नियतं प्रतीयते तत् तस्य वाच्य” गामानयेत्यस्मिन् वाक्ये यथा गोशब्दस्य गोत्वम् । स च व्यापारविशेषो लौकिकवाक्ये पुरुषाभिपाय- विशेषः वैदिकवाक्येषु पुरुषाभावात् लिङादिशब्दानिष्ठ एव । अतएव शाब्दी भावनेति व्यवह्नियते । सा च भावनांशत्रयमपेक्षते—साध्यं साधनमितिमर्त्तव्य- ताञ्च । किं भावयेत्? केन भावयेत्? कथं भाव- येत्?—इति तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयो- पेता आर्थी भावना साध्यत्वेनान्वेति, एकप्रत्यय- गस्यत्वेन समानाभिधानश्रुतेः सङ्ख्यादीनामेकप्रत्ययगम्य- त्वेऽप्ययोग्यत्वान्न साध्यत्वेनान्वयः । साधनाकाङ्क्षायां लिङादिज्ञानं करणत्वेनान्वेति, तस्य च करणत्वं न भावनोत्पादकत्वेन तत्पूर्वमपि तस्याः शब्दे सत्त्वात् किन्तु भावनाज्ञापकत्वेन शब्दभावन भाव्यनिर्वर्त्तकत्वेन वा । इतिकर्त्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमिति- कर्त्तव्यत्वेनान्वेति । प्रयोजनेच्छाजनितक्रियाविषयव्यापार आर्थीभावना । सा चाख्यातवाच्या, आख्यातसामान्यस्य व्यापारवाचित्वात् । साप्यंशत्रयमपेक्षते साध्यं साधनमिति- कर्त्तव्यताञ्च । किं भावयेत्? केन भावयेत्? कथं भाव येत्? इति । तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्य त्वेनान्वेति । साधनाकाङ्क्षायां यागादिः करणत्वेना- न्वेति, इतिकर्त्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमिति- कर्त्तव्यत्वेनान्वेति” ।


शब्दकल्पद्रुमः

भट्टः || पुं, (भटतीति । भट् + बाहुलकात् तन् ।)
जातिविशेषः । भाट इति भाषा । तस्योत्- पत्तिर्यथा, —
“वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह । स भट्टो वावदूकश्च सर्व्वेषां स्तुतिपाठकः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ अपि च । “क्षत्त्रियाद्बिप्रकन्यायां भट्टो जातोऽनुवाचकः ॥” इति युधिष्ठिरपरशुरामसंवादे जातिसङ्कर- लक्षणम् ॥ शिविरान्तिके राज्ञा तस्य वासो देयः । यथा, “ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०१ अः ॥



Correction: