वाचस्पत्यम्
भट्टार || त्रि० भट्टं स्यापित्वमृच्छति ॠ अच् । १ प्रज्ये त्रिका० । सूर्य्ये पु० स्वार्थेक । पूज्ये त्रि० जटा० । नाट्योक्तौ नृपे संज्ञायां कन् । देवे तपोधने पु० मेदि० अमरः । “सखे । स्नायुनिर्मिताः पाशास्तदद्य भट्टारकवारे कथमे- तान दन्तैः स्पृशामि” हितो० ।
शब्दकल्पद्रुमः
भट्टारः || त्रि (भटतीति । भट् + क्विप् । भट् चासौ तारश्चेति कर्म्मधारयः । पृषोदरादित्वात् साधुः । यद्वा भट्टं स्वामित्वं ऋच्छतीति । अण् ।)
पूज्यः । इति त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् । ७ । ८६७ । “नोनसिह्लारभट्टारप्रशस्तकलसादयः । बद्द्वाथ हर्षदेवेन कारागारं प्रवेशिताः ॥”)