संस्कृत-शब्दकोशः

भट्टोजि भडिल

भड

वाचस्पत्यम्

भड ||‍ कल्याणभाषणे चु० उ० सक० सेट् इदित् । भण्डयति—ते अवभण्डत्—त । प्रतारणे च भण्डयति प्रतारकी मुग्धं धनदानाङ्गीकारेण, सनिन्दोपलम्भे परिहासे च उणा० सू० भडिभण्ड्योः पृथग्निर्देशात् अयमिदिद्भिन्नोऽपि ।


वाचस्पत्यम्

भड ||‍ परिमाषणे भ्वा० आ० सक० सेट् इदित् । भण्डते अभण्डिष्ट बमण्डे ।


वाचस्पत्यम्

भड ||‍ पु० भडि—अच् । वर्णसङ्करभेदे “लेटस्तीवरक- न्यायां जनयामास षड्नरान् । माल्लं मल्लं मातर च भडं कोलं च कन्दरम्” ब्रह्मवै० ब्रह्मख० २० अ० ।


शब्दकल्पद्रुमः

भडः || पुं, (भडतीति । भड इङ परिहासे परि- भाषणे वा + अच् ।)
वर्णसङ्करजातिविशेषः । स तु लेटात् तीवरकन्यायां जातः । यथा, —
“लेटस्तीवरकन्यायां जनयामास षण्णरान् । माल्लं मल्लं मातरञ्च भडं कोलञ्च कन्दरम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥



Correction: