शब्दकल्पद्रुमः
भण्डी || स्त्री (भण्डते इति । भडि-इन् ।)
कृदि- कारादिति पक्षे ङीप् ।)
मञ्जिष्ठा । इत्यमरः । २ । ४ । ९१ ॥ (पर्य्यायोऽस्या यथा, —
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनबल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी गण्डीरी च मञ्जूषा वस्त्रराजिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शिरीषवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्या- योऽस्या यथा, —
“शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः । शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः ॥” श्वेतत्रिवृता । तत्पर्य्यायो यथा, —
“श्वेतात्रिवृता भण्डी स्यात् त्रिवृता त्रिपुटापि च । सर्व्वानुभूतिः सरला निशोत्रा रेचनीति च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)