वाचस्पत्यम्
भण्डीतकी || स्त्री भण्डी सती तकति तक—ख्याने अच् गौरा० ङीष् । मञ्जिष्ठायां भावप्र० ।
शब्दकल्पद्रुमः
भण्डीतकी || स्त्री (भण्डी सती तकतीति । तक + अच् । गौरादित्वात् ङीष् ।) मञ्जिष्ठा । इति भावप्रकाशः ॥