संस्कृत-शब्दकोशः

भदाक भद्रक

भद्र

वाचस्पत्यम्

भद्र ||‍ न० भदि—रक् नि० नलोपः । १ मङ्गले उणा० २ मुस्तके ३ स्वर्णे च मेदि० । ज्योतिषोक्ते बवादितः सप्तमे करणे स्त्री न० । ४ महादेवे ५ वृषे ६ खञ्जने ७ कदम्बे ८ हस्ति- जातिभेदे ९ वलदेवे १० रामचरभेदे पु० मेदि० । ११ सुमेरु- शैले पु० हेमच० १२ स्नुहीवृक्षे च पु० राजनि० । ज्योति- षोक्तासु १३ द्वितीयासप्तमीद्वादशीतिथिषु च स्त्री । १४ साधौ १५ श्रेष्ठे च त्रि० मेदि० । १६ देवदारुणि पु० । १७ कृष्णभगिन्यां स्त्री “रामं मां भद्रया सह” ति० त० । १८ मध्यदेशभेदे पु० वृ० स० १४ अ० कूर्मविभागे दृश्यम् । १९ वसु भेदेवपुत्रभेदे पु० भाग० ९२ । ४ । २५ श्लो० । २० तुषितदेवगण- भेदे भाग० ४ । १ । ८ । २१ वैश्रवणपत्न्यां स्त्री० भा० १८९ अ० । २२ सोमस्य दुहितरि उतथ्यपत्न्यां स्त्री भा० अ० १५४ अ० । २३ रौद्राश्वस्य कन्याभेदे हरिवं०३६ अ० । २४ नटभेदे पु० हरिवं० १५० अ० । २५ भारतवर्षस्थे नदीभेदे स्त्री मार्कपु० ५९ अ० । विष्टिभद्रायाः सर्वकार्य्ये वर्जनप्रतिप्रसवादिकं मु० चि० पी० धा० दर्शितं यथा “अयोगे सुयोगोऽपि चेत् स्यात् तदानीमयोगं निहत्यैष- सिद्धिं तनोति । परे लग्नशुद्ध्या कुयोदिनाशं दिनार्द्धो- त्तरं विष्टिपूर्वं च शस्तम् (१) । शुक्ले पूर्वार्द्धेऽष्टमीपञ्च- दश्योर्भद्रैकादश्यां चतुर्थ्यां परार्द्धे । कृष्णेऽन्त्यार्द्धे स्यात् तृतीयादशम्योः पूर्वे भागे सप्तमीशम्भुतिथ्योः (२) । पञ्चद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शरा विष्टेरास्य मसद्गजेन्दुरसरामाद्यश्विवाणाब्धिषु । यामेष्वन्त्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्द्धजा शुभकरी रात्रौ तु पूर्वार्द्धजा (३) । कुन्भकर्कद्वये मर्त्ये स्रर्गेऽब्जेऽजा- त्रयेऽलिगे । स्त्रीधनुर्जूकनक्रे धो भद्रा तत्रैव तत्- फलम् (४)” मू० । “अथावश्यकशुभकृत्ये कालान्तरप्रतीक्षाऽयोग्यतायां परिहारमाह विष्टिपूर्वं विष्टिर्भद्रा तत्पूर्वं तदादि व्य- तीपातादिकं दिनार्द्धोत्तरं मध्याह्नादनन्तरं शस्तं प्राहुः अर्थान् मध्याह्न यावत्कालो निषिद्धः “विष्टिरङ्गारक श्चैव व्यतीपातश्च वैधृतिः । प्रत्यरं जन्मनक्षत्रं मध्याह्नात् परतः शुभम्” इति तेनैवोक्तत्वात् (१) । अथ भद्रा निषिद्धेति पूवमुक्तं तदधुना प्रस्तावात् तन्निषिद्धकालं शालिनीच्छन्द- साह शुक्ले इति । शुक्लपक्षे अष्टम्यां पूर्णिमायाञ्च पूर्वार्द्धे भद्रा भवति एकादश्यां चतुर्थ्यां चोत्तद्धरार्द्धे भद्रा । अथ कृष्णे कृष्णपक्षे तृतीयायां दशम्यां चान्त्यार्द्धे उत्तरार्द्धे भद्रा स्यात् सप्तम्यां शम्भ तिथौ चतृर्दश्याञ्च पूर्वे भागे पूर्वार्द्धे भद्रा स्यात् पूर्वे इति पूर्वादिभ्यो नवभ्यो वेति स्मिनभावपक्षे रूपम् । अष्टम्यादीनां तिथीनां गत- भोग्यघटिकायोगार्द्धं भद्राप्रमाणमिति यावत् “तिथे- र्गतैष्यैक्यदलं तन्मानं करणं भवेत्” वोपदेवोक्तेः “तिथ्य- र्द्धभागं सर्वेषां करणानां प्रकल्पयेत्” इति सूर्य्यसिद्धा- न्वोक्तेश्च । उक्तञ्च दीपिकायाम् तृतीयादशमीशेषे तत्प- ञ्चन्योस्तु पूर्वतः । कृष्णे विष्टिः सिते तद्वत्तासां परतिथि- ष्वपि” बहस्पतिना तु स्पष्टमुक्तम् । “सिते चतुर्थ्यामन्त्या- र्धमष्टम्याद्यार्द्धमेव च । एकादश्या परार्द्धे तु पूर्वार्द्धं पूर्णशीतगौ । कृष्णे तृतीयान्त्यार्द्धं हि सप्तम्याद्यार्द्ध- मेव च । दशम्यामुत्तरार्द्धं तु चतुर्दश्यर्द्धमादितः । वि- ष्ट्याख्योऽयं महादोषः कथितोऽत्र समस्तगः । तदानीं कृत- तत्कम कर्त्रा सह विनश्यति” इति । पूर्णशीतगौ पूर्णिमा- याम् । रत्नकोशे प्रत्येकं भद्रानामानि “हंसी नन्दिन्यपि च त्रिशिराः सुमुखी करालिकाचैव वैकृतिरौद्रमुखी च चतुर्मुखी विष्टयः क्रमशः” । चतुर्थ्यादितिथिसम्बन्धि भद्रानामामाभिधानं नामसादृश्येन कलतारम्यसूच- नार्थम् । भद्रास्वरूपं रत्नमालायाम् “उद्बद्धोद्भटतरपी- डिताऽतिकृष्णा दंष्ट्रोग्रा पृषुहनुगण्डदीर्घनासा । कार्य्य- घ्नीहुतबहबहुलं समुद्निरन्ती विश्वान्तः पतति समन्ततोऽत्र विष्टिरिति” (२) । अथ चतुर्थ्यादितिथिषु भद्रायामुखपुच्छ- विभागादिकं शार्दूलविक्रीडितेनाह । पञ्चेति चतुर्थ्यादि तिथीनां क्रमशः पञ्चादिप्रहरेषु शराः पञ्च नाड्यः आदिमा विष्टेर्भद्राया आस्यं मुखं यथा चतुर्थ्याः पञ्चम- प्रहरे, आदिभूता पञ्च धट्यो भद्रामुखम् एवमष्टम्या द्वि- तीयप्रहरे, एकादश्याः सप्तमप्रहरे, पौर्णमास्याश्चतुर्थ- प्रहरे, तृतीयाया अष्टमप्रहरे, सप्तम्यास्तृतीयप्रहरे, भद्रामुखमित्यर्थः तद् भद्रायामुखमसदशुभमित्यर्थः अथ पुनश्चतुर्थ्यादितिथीनां क्रमेण गजादिप्रहरेषु अन्त्यम् अन्ते भवमन्त्यं दिगादिभ्यो यदिति यत् घटीत्रयं पुच्छं पुच्छसंज्ञं तच्छुभकरं समस्तकार्य्येष्वित्यर्थः । यथा चतुर्थ्या अष्टमप्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छम एव- मष्टम्याः प्रथमप्रहरस्य, एकादश्याः षष्ठप्रहरस्य, पूर्णि- मायास्तृतीयप्रहरस्य, तृतीयायाः सप्तमप्रहरस्य, सप्तम्या द्वितीयप्रहरस्य, दशम्याः पञ्चमप्रहरस्य, चतुर्दश्याश्चतुर्थ प्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छमित्यर्थः । यदाह गुरुः “भूतदस्रस्वराम्भोधिवसुवह्न्यङ्गरूपकाः । यामेष्वेषु क्रमादास्य भवेत तिथ्यर्द्धविष्टिष्विति” । व्यवहारसमुच्चये “दशम्यामष्टम्यां प्रथमघटिकापञ्चकपरं हरिद्युः सप्तम्यां द्विदश १२ घटिकान्ते त्रिघटिकम् । तृतीयाराकायां स्वयम २० घटिकाभ्यः परभवं शुभं विष्टेः पुच्छं शिवतिथिचतुर्थ्यास्तु विरमे” इति । हरिद्युरेकादशी राका पूर्णिमा । ननु भद्रा देवतेत्यभिधीयते तस्याः पुच्छकथनात्तु पशुत्वसिद्धि- र्दृश्यते देवता च कथं पशुर्भवितुमर्हति । सत्यं दैत्येन्द्रैर्देवेषु पराजितेषु रुद्रस्य ज्वालामालाकुसनेत्रा लोकितदेहात् देवी भद्रासंज्ञा मुखपुच्छादिमत्येव उत्पन्ना दैत्यान् जघान यदुक्तं श्रीपतिना दैत्यैन्द्रैः समरेऽमरेषु विजितेष्वीशः क्रुधा दृष्टवान् स्व- ङ्कायं किल निर्गता स्वरमुखी लाङ्गूलिनी च त्रिपात् । विष्टिः सप्तभुजा मृगेन्द्रगलका क्षानोदरी प्रेतगा दै- त्यघ्नी मुदितैः सुरैस्तु करणप्रान्ते नियुक्ता सदेति” । भद्राकृत्यमाह वसिष्ठः “बधबन्धविषाग्न्यस्त्रच्छेदनीच्चा- टनादि यत् । तुरङ्गमहिषोष्ट्रादि कर्म विष्ट्यान्तु सि- द्ध्यति । न कुर्य्यान् मङ्गलं विष्ट्यां जीवितार्थी कदा- चन । कुर्वन्नज्ञस्तदा क्षिप्रं तत् सर्वं नाशतां व्रजेत्” । तत्राङ्गविभागः फलञ्च कश्यपसंद्वितायाम् “मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ- चतस्नः षट् कट्यां तिस्रः पुच्छे तु नाडिकाः । का- र्य्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता । कट्यामुत्मत्तता नामौ च्युतिः पुच्छेध्रुवी जयः” । अयञ्च भद्राङ्गविभागो नाडीनां त्रिंशतोन्यूनाधिकत्वे तु त्रैराशिकेन मुखा- दीनामङ्गानां विभागज्ञानं यथा यदि नाडी त्रिंशता इदमुक्तमङ्गपरिमाणं इष्टपरिमाणेन किमिति त्रैराशिकम् एवं सति उक्ताङ्गपरिमाणं भद्राभोगमितघटीभिः सङ्गुण्यं त्रिंशता भाज्यं लब्धसमोऽङ्गविभागः । तत्र मुखादिकाशा रत्नमालायाम् “जलशिखिशशिरक्षःशर्व कीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः । नियतमृषिभिराशासंख्यया प्रक्रमेण स्फुटमिह परिहार्य्यं मङ्गलेष्वेतदेव” । जलं वरुणः कीनाशा यमः शुक्लचतुर्थ्या उत्तरार्द्धे पश्चिमदिशि भद्रामुखं तच्चाशासंख्यक्रमेण पञ्चमे प्रहरे भवति अर्थादेव भद्रायाः प्रहरचतष्टया धिकस्थितभावादन्मे एव घटिकात्रयं पुच्छं ततोऽ- ष्टम्यां द्वितीयप्रहरेऽनेन प्रकारेण आग्नेय्यां दिशि- मुखं मुखाच्च प्राक् पुच्छमिति प्रथमप्रहरान्त एव पुच्छघटिका इत्येवं सर्वास्वपि भद्रातिथिष्ववगन्तव्यं प्रयोजनमपि तत्रैव “मनुवसुमुनितिथियुगदशशिवगुण- संख्यासु तिथिषु पूर्वस्याः । आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्वशुभेति” तदेतदात्ययिककार्य्यस्यासम्मवे सति मुखदिक्संमुखयात्रानिषेधकमवधेयम् । ग्रन्थान्तरे अन्यदप्युक्तम् । “असिते सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी । सर्पिण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च” । अथ परिहारमाह तथेति विष्टिस्तिथ्यपरार्द्धजा तिय्युत्तरार्द्धे संभूता वासरे दिवसे यदि स्याद् भद्रा तदा शुभकरी तेनैव प्रकारेण तिथिपूर्वार्द्धजा भद्रा रात्रौ चेत् स्यात् तदा शुभा शुभकरो स्यात् । उक्तञ्च “रात्रिभद्रा यदाह्नि स्याद् दिवा भद्रा यदा निशि । न तत्र भद्रादोषः स्यात् सा भद्रा भद्रदायिनी” इति । रात्रिभद्रा तिथ्य त्तरार्द्धोद्भवा दिवाभद्रा तिथिपूर्वार्द्धो- द्भवा अमुमर्थं स्पष्टमाह गुरुः । “निशि पूर्वार्द्धजा विष्टि- र्दिवा चापरतः शुभा । क्रमागता तु या विष्टिः सैव हालाहलोपमा” इति । लल्लीऽपि “दिवा परार्द्धजा विष्टिः पूर्वार्द्धोत्या यदा निशि । तदा विष्टिः शुभायेति क- मलासनभाषितम्” । ब्रह्मसिद्धान्तेऽपि “दिवा परार्द्धजा विष्टिर्विष्टिरेव दिवानिशोः । सा त्याज्या त्वन्यथा विष्टिः सर्वकर्मशुभप्रदा” । मनु यत् तु नारदकश्यपादिभि- रुक्तम् । “करणानि षबादीनि शुभसंज्ञानि षट्क्रमात् । क्रमायाता क्रमायाता विष्टिर्नेष्टा तु मङ्गले” । अत्र क्रमायाता दिवारात्रिक्रमायाता दिवाभद्रा रात्रौ रात्रिभद्रा च दिवेत्यर्थः । एवं सति द्विविधाया अपि भद्रायादोषवत्त्वोक्तेः पूर्वोक्तपरिहाराभिधानमयुक्तम् उ- च्यते इदमेव क्रमायातेति वचनं ज्ञापकमुक्तार्थस्य अन्यथा सामान्यतो भद्राद्वये इत्युक्ते द्विविधभद्राया दोष- वत्त्वसिद्धेरनर्थकमिदं स्यात्तस्माच्छुमकार्य्याणां भद्रा- रूपदुष्टदिनप्यतिरिक्तकालप्रतीक्षाऽयोग्यत्वे तदैव कार्य्यं न दुष्टदिने अयधेनोपपत्तौ बाधो न न्याथ्य इति न्यायात् वचनस्य निषेध एव तात्पर्य्याच्च । षवश्य- कर्त्तव्यस्य तु शुभकर्मणः कालान्तरप्रतीक्षामसहमान- स्यैवमादिपरिहारमाश्रित्य दुष्टदिने कृतिरुचितैव वि- ष्टिरङ्गारकश्चैवेत्यपि परिहार एतत्पर एवेत्यलं पल्ल- वितेन । अथ भद्रानिवासं तत्फलञ्चानुष्टुभाह (३) । कु- म्भेति अब्जे चन्द्रमसि कुम्भद्वये कुम्भमीनस्थे कर्कद्वये कर्कसिंहराशिस्थिते सति भद्रा मर्त्ये मनुव्यलोके तिष्ठति । अथाजात्त्रये मेषवृषमिथुनस्थितेऽलिगे वृश्चिकस्थिते चन्द्रे स्वर्गे भद्रा तिष्ठति । कन्याधनुस्तुलामकरराशिस्थितेऽधः पाताललीके भद्रा तिष्ठति । अथ भद्रा तत्रैव मर्त्य स्वर्गपातालेषु फलं ददातीत्यपवादद्वारा प्रयोजनमुक्तं भवति । उक्तञ्च “मेषोक्षकौर्पमिथुने घटसिंहमीनकर्कषु चापमगतौलिसुतासु चन्द्रे । स्वर्मर्त्यनागनगरीः क्रमशः प्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे” इति । भूपालवल्लभे “कन्थातुलामकरधन्विषु नागलोके मेषालि- वैणिक ऋषषु सुरालये स्यात् । पाठीनसिंहघटकर्कटकेषु मर्त्ये चन्द्रे वदन्ति मुनयस्त्रिविधां हिविष्टिम्” (४) बी० धा० भद्रशब्दात् परिवापणे (मुण्डने)ऽर्थे गम्ये डाच् । कृञोऽ- नुप्रयोगः सक्षादा० स० । भद्राकरोति माङ्गल्यं मुण्डनेन सस्करोतीत्यर्थः सि० कौ० । एवं मद्रशब्देऽपि बोध्यम् ।


शब्दकल्पद्रुमः

भद्रं || क्ली (भन्दते इति । भदि कल्याणे + “ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रेति ।” उणा ० । २ । २८ । इति रन् । निपात्यते च ।)
मङ्गलम् । (यथा, ऋग्वेदे । २ । २६ । २ । “यजस्व वीर ! प्रविहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्य्ये ॥” यथा च कामन्दकीयनीतिसारे । १३ । १२ । “किरीटमणिचित्रेषु मूर्द्धसु त्राणसारिषु । नाकृत्वा विद्विषां पादं पुरुषो भद्रमश्नुते ॥”)
मुस्तम् । काञ्चनम् । इति मेदिनी । रे, ७१ ॥


शब्दकल्पद्रुमः

भद्रं || क्ली स्त्री, (भदि + रन् निपात्यते च ।)
करणविशेषः । इति मेदिनी । रे, ७२ ॥ तत्तु विष्टिभद्रात्वेन प्रसिद्धमशुभदम् । इति ज्योतिषम् ॥


शब्दकल्पद्रुमः

भद्रः || त्रि (भन्दते इति । भदि कल्याणे रन् । निपात्यते च ।)
श्रेष्ठः । साधुः । इति मेदिनी । रे, ७२ ॥ (यथा, पञ्चतन्त्रे । १ । २६ । “भद्र ! कण्टक ! अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छमवतीर्य्य स्थितः ॥”)


शब्दकल्पद्रुमः

भद्रः || पुं, (भन्द ते इति भदि + रन् निपातितश्च ।)
शिवः । स्वञ्जरीटः । वृषभः । कदम्बकः । करि- जातिविशेषः । इति मेदिनी । रे, ७० ॥ नव- शुक्लावलान्तर्गतजिनभेदः । रामचरः । सुमेरुः । इति हेमचन्द्रः ॥ स्नुही । इति राजनिर्घण्टः ॥ (चन्दनम् । तत्पर्य्यायो यथा, —
“श्रीखण्डं चन्दनं नस्त्री भद्रः श्रीस्तैलपर्णिकः । गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
साध्यमौलिकानां पद्धतिविशेषः । यथा, — विष्णुर्नागः खिलपिलगूतैन्द्रो गुप्तः पालो भद्रः । इति कुलाचार्य्यकारिका ॥ (वसुदेवस्य पुत्त्र- भेदः । यथा, भागवते । ९ । २४ । ४७ । “सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च । पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥” सरोवरविशेषः । यथा, मत्स्यपुराणे । ११२ । ४६ । “अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम् । तेषामुपरि चत्वारि सरांसि च वनानि च ॥” तृतीयमनोरुत्तमस्यान्तरे देवगणभेदे बहुवच- नान्तोऽयम् । यथा, भागवते । ८ । १ । २४ । “वशिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥” स्वायम्भुवमन्वन्तरे विष्णोर्दक्षिणागर्भजात तुषित- नामकदेवगणभेदः । यथा, भागवते । ४ । १ । ६-७ । “तां कामयानां भगवानुवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥ तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ॥ इध्मः कविर्विभुः स्वाह्रः सुदेवो रोचनो द्विषट् ॥” पर्व्वतविशेषः । यथा, ब्रह्माण्डपुराणे । भुवन- कोषे । ४० अध्याये । “अरक्षः शिखिरौतश्च सको वैदूर्य्यपर्व्वतः । कपिलः पिङ्गलो भद्रः सुरसश्च महाचलः ॥” एकादशद्वापरजातो महेश्वरस्य ऋषिमूर्त्त्यव- तार विशेषः । यथा, ब्रह्माण्डे । २७ अध्याये । “एकादशद्वापरे तु व्यासस्तु त्रिवृषो यदा । तदाप्यहं भविष्यामि गङ्गाद्वारे युगान्तिके ॥ भद्रो नाम महातेजास्तत्रापि मम पुत्त्रकाः । भविष्यन्ति महात्मानो सुवृत्ता वेदपारगाः ॥”)



Correction: