वाचस्पत्यम्
भद्रदारु || पुंन० । कर्स० । देवदारुवृक्षभेदे अमरः ।
शब्दकल्पद्रुमः
भद्रदारु || क्ली पुं, (भद्रं दारु ।) देवदारु । इत्य- मरभरतौ ॥ सरलकाष्ठम् । इति रत्नमाला ॥