संस्कृत-शब्दकोशः

भद्राश्रय भद्रासन

भद्राश्व

वाचस्पत्यम्

भद्राश्व ||‍ न० भद्रा अश्वा यत्र । १ जम्बुद्वीपस्य नववर्षान्तर्गते वर्ष- भेदे । २ तद्वर्षस्थे जनपदे पु० ब० व० । तद्वर्षविवरणञ्च “माल्य- वतः पूर्बपार्श्वे पूर्वगण्डिका एकशृङ्गाद् योजनसहस्राणि मानन्तत्र च भद्राश्वा नाम जनपदाः भद्रसालवनञ्च तत्र व्यवस्थितं, कालाभ्रवृक्षाः, पुरुषाः श्वेताः, पद्मवर्णिनः, स्त्रियः कुमुदवर्णाः दशवर्षसहस्राणि च तेषामायुस्तत्र च पञ्च कुलपर्वताः तद्यथा शैलवर्णः मालाख्यकीऽवरज- स्वः त्रिपर्णो नीलश्चेति तद्विनिर्गता नद्यस्तदन्तःस्थितानां देशानां तान्येव नामानि ते च देशाः एताः नदीः पि- वन्ति तद्यथा सीता सुवाहिनी हंसवती कावेरी सुरसा शाखावती इन्द्रनदी अङ्गारवाहिनी हरितोया सोमा- वर्त्ता शतह्रदा यमाला वसुमती हंसापर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शैवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा सुरावती वामोदा पताका चेत्येता महानद्यः एताश्च गङ्गासमाः कीर्त्तिताः आजन्मान्तं पापं विनाशयन्ति क्षुद्रनद्यश्च कोटिशस्ताश्च नदीर्ये पिवन्ति ते दशवर्षसह- स्रायुषः रुद्रोमाभक्ता इति वराहपु० गद्यम् । अधिकं जम्बुद्वीपशब्दे ३०४५ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

भद्राश्वं || क्ली (भद्रा अश्वा अत्र ।)
भुवि जम्बुद्वीपस्य नववर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥ तद्विवरणं यथा । माल्यवतः पूर्ब्बपार्श्वे पूर्ब्ब- गण्डिका एकशृङ्गाद्योजनसहस्राणि मानन्तत्र च भद्राश्वा नाम जनपदाः भद्रशालवनञ्च तत्र व्यवस्थितं कालाभ्रवृक्षाः पुरुषाः श्वेताः पद्म- वर्णिनः स्त्रियः कुमुदवर्णाः दशवर्षसहस्राणि च तेषामायुस्तत्र च पञ्च कुलपर्व्वताः तद्यथा, शैलवर्णः मालाख्यको वरजस्वः त्रिपर्णोनीलश्चेति तद्विनिर्गता बह्व्यो नद्यस्तदम्भःस्थितानां देशानां तान्येव नामानि ते च देशाः एताः नदीः पिबन्ति । तद्यथा, सीता सुवाहिनी हंसवती कावेरी सुरसा शाखावती इन्द्रनदी अङ्गार- वाहिनी हरितोया सोमावर्त्ता शतह्रदा वन- माला वसुमती हंसा पर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शैवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा सुरावती वामोदा पताका- श्चेत्येता महानद्यः एताश्च गड्गासमाः कीर्त्तिताः आजन्मान्तं पापं विनाशयन्ति क्षुद्रनद्यश्च कोटिशस्ताश्च बदीर्ये पिबन्ति ते दशवर्षसह- स्रायुषः रुद्रोमाभक्ता इति । इति वाराहे भुवनकोषे रुद्रगीता ॥ अपि च । तथैवेलावृत- मपरेण पूर्ब्बेण च माल्यवद्गन्धमादनावानील निषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्रा- श्वयोः सीमानं विदधाते । मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरो अतुर्द्दिगमवष्टम्भगिरय उपकॢप्ताः । चतुर्षु एतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादप- प्रवराः पर्व्वतकेतव इवाधिसहस्रयोजनोन्नाहा- स्तावद्विटपविततयः शतयोजनपरिणाहाः । ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः यदुप- स्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभावि- कानि भरतर्षभ ! धारयन्ति । देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्व्वतोभद्रामति । येष्वमरपरिवृढाः सहसुर- ललनाललामयूथपतय उपदेवगणैरुपगीयमान- महिमानः किल विहरन्ति । मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरि- शिखरस्थूलानि फलान्यमृतकल्पानि निपतन्ति । तेषां विशीर्य्यमाणानां अतिमधुरसुरभिसुगन्धि- बहलारुणरसोदेनारुणोदा नाम नदी मन्दर- गिरिशिखरान्निपतन्ती पूर्ब्बेणेलावृतमुपप्लाव- यति । यदुपजोषणाद्भवान्या अनुचरीणां पुण्य- जनबधूनामवयवस्पर्शसुगन्धिवातो दशयोजनं समन्तादनुवासयति । एवं जम्बूफलानामत्यु- च्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय- निभानां रसेन जम्बूनदी नाम नदी मेरुमन्दर- शिखरादयुतयोजनादवनितले निपतन्ती दक्षिणे- नात्मानं यावदिलावृतमुपस्यन्दति । तावदु- भयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्य- माना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति यदुहवाव विबुधा- दयः सह युवतिभिर्मुकुटकटककटिसूत्राद्या- भरणरूपेण खलु धारयन्ति । यस्तु महाकदम्बः मुपाश्वपार्श्वनिरूढस्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्व- शिखरात् पतन्त्योऽपरेणात्मानमिलावृतमनु- मोदयन्ति यो ह्युपयुञ्जानानां मुखनिर्व्वासितो वायुः समन्तात् शतयोजनमनुवासयति । एवं कुमुदनिरूढो यः शतवल्लो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्य- म्बरशव्यासनाभरणादयः सर्व्व एव कामदुघा नदाः कुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुप- योजयन्ति यानुपजुषाणानां न कदाचिदपि प्रजानां बलीपलितक्लमस्वेददौर्गन्ध्यजरा- मयापमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखनिरतिशयमेव कुरङ्गकुरर- कुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषध- शितिवासकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनाग- कालञ्जरनीरदादयो गिरयो मेरोः कर्णिकाया इव केशरभूता मूलदेशे परित उपकॢप्ताः । जठरदेवकूटौ मेरुं पूर्ब्बेणाष्टादशयोजनसहस्र- मुदगायतौ द्विसहस्रपृथुतुङ्गौ भवतः एवमप- रेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतौ एवमुत्तरतस्त्रिशृङ्गमकरौ अष्टाभि- रेतैः परिवृतोऽग्निरिव परितश्चकास्ते काञ्चन- गिरिः । मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतु- रम्नां शातकौम्भीं वदन्ति तामनुपरितो लोक- पालानामष्टानां यथादिशं यथारूपं तुरीय- मानेन पुरोऽष्टावुपकॢप्ताः । इति श्रीभागवते ५ स्कन्धे भुवनकोषवर्णने १६ अध्यायः ॥



Correction: