वाचस्पत्यम्
भद्रासन || न० भद्राय लोकक्षेमायास्यतेऽत्र आस—आधारे ल्युट् । नृपासने असरः । तल्लक्षखादि वृ० स० ४८ अ० उक्तं यथा “आदावनडुहश्चर्म जरया संहृतायुषः । प्रशस्तलक्षण- भृतः प्राचीनग्रीवमास्तरेत् । ततो वृषस्य योधस्य चर्म रोहितमक्षतम् । सिंहस्याथ ततीयं स्याद्व्याघ्रस्य च ततः परम् । चत्वार्य्येतानि चर्माणि तस्यां वेद्यामुपा- स्तरेत् । शुभे मुहूर्त्ते संप्राप्ते पुष्ययुक्ते निशाकरे । भद्रासनमेकतमेन कारितं रुक्मरजतताम्राणाम् । क्षीरतरुनिर्मितं वा विन्यस्तं चर्मणामुपरि । त्रिविध- स्तस्योच्छ्रायो हस्तः पादाधिकोऽर्द्धयुक्तश्च । माण्डलिका नन्तरजित् समस्तराज्यार्थिनां शुभदः । अन्तर्धाय हि- रण्यं तत्रोपविशेन्नरेश्वरः सुमनाः” ।
शब्दकल्पद्रुमः
भद्रासनं || क्ली (भद्राय लोकहिताय आसनम् ।)
नृपासनम् । इत्यमरः । २ । ८ । ३१ ॥ (योगि- नामासनविशेषः । यथा, तन्त्रसारे । “सीवन्याः पार्श्वयोर्नंस्येद्गुल्फयुग्मं सुनिश्च- लम् । भद्रासनं समुद्दिष्टं योगिभिः परिकल्पितम् ॥”)