संस्कृत-शब्दकोशः

भम्भासार भयकर

भय

वाचस्पत्यम्

भय ||‍ न० विभेत्यस्मात् भी—अपादाने अच् । १ भयहेतौ । भावेऽच् । २ दैन्यात्मके परतः स्वानिष्टसम्भावनारूपे वा चित्तवृत्तिभेदे ३ नाटकप्रसिद्धे भयस्थायिभावके रसभेदे च । भयञ्च “रौद्रशक्त्या तु जनितं चित्तवैकल्यजं भयम्” सा० द० लक्षितम् । भयानकशब्दे दृश्यम् । ४ निरृतिपुत्रभेदे पु० भा० आ० ६६ अ० ।


शब्दकल्पद्रुमः

भयं || क्ली (भी + “एरच् ।” ३ । ३ । ५६ । इत्यत्र “भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्य- र्थम् ।” इति वार्त्तिकोक्त्या अपादाने अच् ।)
बिभे- त्यस्मात् तत् । इति भरतः ॥ अस्य लक्षणं यथा, “रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥ अपि च । रागविषयस्य विनाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्या- त्मकश्चित्तवृत्तिविशेषो भयम् । इति भगवद्- गीतायां २ अध्याये मधुसूदनसरस्वती ॥ अन्यच्च । परतः स्वानिष्टसम्भावना भयम् । यया । व्याघ्राद्बिभेति व्याघ्राधीनत्वेन स्वीयमरणं सम्भावयति । इति २ व्युत्पत्तिषादे गदाधर- भट्टाचार्य्यः । तत्पर्य्यायः । दरः २ त्रासः ३ भीतिः ४ भीः ५ साध्वसम् ६ । इत्यमरः । १ । ७ । २१ ॥ रुद्रासः ७ साधुसंभवः ८ प्रतिभयम् ९ । इति शब्दरत्नावली ॥ आतङ्कः १० आशङ्का ११ भिया १२ । इति हेमचन्द्रः ॥ आगते भये अभीतवत् स्थातव्यम् । यथा, —
“तावद्भयस्य भेतव्यं यावद्भयमनागतम् । उत्पन्ने तु भये तीव्रे स्थातव्यं तैरभीतवत् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥ कुब्जकपुष्पम् । घोरे, त्रि । इति मेदिनी । ये, ४१ ॥ पुं रोगः । इति राजनिर्घण्टः ॥ (निरॄतेः पुत्त्रभेदः । यथा, महाभारते । १ । ६६ । ५५-५६ । “तस्यापि निरृतिर्भार्य्या नैरृता येन राक्षसाः । घोरास्तस्यास्त्रयः पुत्त्राः पापकर्म्मरताः सदा ॥ भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा । न तस्य भार्य्या पुत्त्रो वा कश्चिदस्त्यन्तको हि सः ॥” द्रोणस्य वसोरभिमतिनामिकायां पत्न्यां जातः पुत्त्रभेदः । यथा, भागवते । ६ । ६ । ११ । “द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥” यवनराजविशेषः । यथा, भागवते । ४ । २७ । २३ । “ततो विहतसङ्कल्या कन्यका यवनेश्वरम् । मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥”)



Correction: