संस्कृत-शब्दकोशः

भय्य भरग

भर

वाचस्पत्यम्

भर ||‍ पु० भृ—अप् । १ अतिशये । कर्त्तरि अच । २ मरणकर्त्तरि त्रि० अमरः ।


शब्दकल्पद्रुमः

भरः || पुं, (भरतीति । भृ + पचाद्यच् ।)
अति- शयः । इत्यमरः । १ । २ । ६९ ॥ (यथा, गीत- गोविन्दे । ४१ । “पीनपयोधरभारभरेण हरिं परिरभ्य सरा- गम् ॥” भारः । यथा, भागवते । १ । ३ । २३ । “एकोनविशे विंशतिमे वृष्णिषु प्राप्य नामनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥”)
भरणकर्त्तरि, त्रि । (यथा, ऋग्वेदे । १० । १०० । २ । “भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ॥” “भराय सर्व्वेषां पोषकाय ।” इति तद्भाष्ये सायनः ॥ संग्रामः । यथा, ऋग्वेदे । ४ । ३८ । ५ । “उत स्मैनं वस्त्रमथिं न त्रायु मनुक्रोशन्ति क्षितयो भरेषु ॥” “भरेषु संग्रामेषु ।” इति तद्भाष्ये सायनः ॥)



Correction: