संस्कृत-शब्दकोशः

भरट भरणी

भरण

वाचस्पत्यम्

भरण ||‍ न० भृ—भावकरणादौ ल्युट् । १ वेतने २ पोषणे ३ धारणे च । अश्विन्यवधिके द्वितीये ४ नक्षत्रे शब्दर० ५ घोषक- लतायाञ्च स्त्री ङीप् । नक्षत्रभेदे पु० मेदि० । तस्यायोग- तारादिकम् अश्लेषाशब्दे उक्तम् सा च राशिचक्रस्य४० अं- शोत्तरं १३ । २० कलाविकलात्मिका । उग्रगणान्तर्गता- अधोमुखन्तर्गता च । भरणेन हरति भस्त्रादि० ष्ठन् भर- णिक वेतनेन हारिणि त्रि० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

भरणं || क्ली (भ्रियतेऽनेनेति । भृ + करणे ल्युट् ।)
वेतनम् । भृतिः । इति मेदिनी । णे, ६८ ॥ (भृ + भावे ल्युट् ।)
पोषणम् । यथा, —
“भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥” इति दायभागः ॥


शब्दकल्पद्रुमः

भरणः || पुं, (भरतीति । भृ + ल्यु ।)
भरणीनक्षत्रम् । इति शब्दरत्नावली ॥



Correction: