संस्कृत-शब्दकोशः

भरण भरणीभू

भरणी

शब्दकल्पद्रुमः

भरणी || स्त्री (भरण + गौरादित्वात् ङीष् ।)
घोषकलता । इति मेदिनी । णे, ६८ ॥ अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतद्वितीयनक्षत्रम् । तत्पर्य्यायः । यमदैवता २ । इति हेमचन्द्रः ॥ सा तारकात्रयमितत्रिकोणाकृतिः । तस्या अधिष्ठात्री देवता यमः । यथा, —
“तारकात्रयमिते त्रिकोणके मध्यगे दिविषदध्वनो यमे । पङ्कजाक्षिगणिताः कुलीरतः सायकाक्षिभुजसंख्यकाः कलाः ॥ दं ३ । ४५ । इति कालिदासकृतरात्रिलग्न- मानम् ॥ सा च उग्रगणान्तर्गता । अधो- मुखगणान्तर्गता च । विद्यार्घ्यभूमिखनने प्रशस्ता । इति ज्योतिस्तत्त्वम् ॥ तत्र जातफलम् । “सदापकीर्त्तिर्हि महापवादो नानाविनोदैश्च विनीतकालः । जले विलासी चपलः खलः स्यात् प्राणिप्रणीतो भरणीषु जातः ॥” इति कोष्ठीप्रदीपः ॥



Correction: