भरण्ड
भरण्यभुक्
भरण्य
वाचस्पत्यम्
भरण्य || कण्ड्वा० नामधातुः भुरणेत्यत्र पाठान्तरम् धारणे पोषणे पर० सक० सेट् भरण्यति भुरण्यति वा ।
शब्दकल्पद्रुमः
भरण्यं || क्ली (भरणे साधु । “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।)
मूल्यम् । वेतनम् । इत्य- मरः । २ । १० । ३१ ॥