वाचस्पत्यम्
भरतखण्ड || कुमारिकाखण्डे “कुमारिकेति विख्याता यस्या नाम्ना प्रकथ्यते । इदं कुमारिकाखण्डं चतुर्वर्गफल- व्रदम् । यथा कृतावनीयञ्च नानाग्रामादिकल्पना । इदं भरतखण्डश्च मया सम्यक् प्रकल्पितम्” स्कन्दपु० ।
शब्दकल्पद्रुमः
भरतखण्डं || क्ली भारतवर्षान्तर्गतकुमारिका- खण्डम् । यथा, —
“कुमारिकेति विख्याता यस्या नाम्ना प्रकथ्यते । इदं कुमारिकाखण्डं चतुर्वर्गफलप्रदम् ॥ यथा कृतावनीयश्च नानाग्रामादिकल्पना । इदं भरतखण्डञ्च यया सम्यक् प्रकल्पितम् ॥” इति स्कान्दे कुमारिकाखण्डे भूसंस्थितिनामा- ध्यायः ॥