संस्कृत-शब्दकोशः

भर्तृस्थान भर्त्स

भर्तृहरि

वाचस्पत्यम्

भर्तृहरि ||‍ पु० भर्त्ता हरिरिव । वाक्यपदीयादि ग्रन्थकर्त्तरि विक्रमादित्यस्य ज्येष्ठे भ्रातरि राजभेदे!


शब्दकल्पद्रुमः

भर्त्तृहरिः || पुं, स्वनामख्यातः काव्यकर्त्तृराज- विशेषः । इति जटाधरः । स च विक्रमादित्य- भ्राता ॥ (अयमेव गन्धर्व्वसेनात् दासीगर्भ- जातः । यथा, राजावल्याम् । ४ । १-२ । “अथ कालेन कियता रममाणो महीतले । दास्यां गन्धर्व्वसेनस्तु पुत्त्रमेकमजीजनत् ॥ तस्य भर्त्तृहरीत्येवं नाम चक्रे महामतिः ॥”)



Correction: