संस्कृत-शब्दकोशः

भलानस् भल्लक

भल्ल

वाचस्पत्यम्

भल्ल ||‍ दाने बधे निरूपणे च भ्वा० प० सक० सेट् । भल्लति अभल्लीत् ।


वाचस्पत्यम्

भल्ल ||‍ पु० भल्ल—अच् । १ भल्लूके । २ अस्त्रभेदे पुंन० । स्वार्थे क भल्लूके पुंस्त्री० वा गौरा० ङीष् पक्षे टाप् । भल्लकाप्यत्र । ततः सङ्कला० निर्वृत्तार्थे अण् । भाल्ल भल्लकृते त्रि० चत- रर्थ्यां सख्या० ठञ् । भाल्लिक तस्यादूरदेशादौ त्रि० । वृ० स० १४ उक्ते ऐशान्यां स्थिते ३ देशभेदे पु० । ४ तद्देशभवे च ब० व० । स्वार्थे क । भल्लक तत्रार्थे ततः स्वार्थे छ । भल्ल- कीय तदर्थे तस्यापत्यं छ । भल्लकीय तदपत्यादौ त्रि० ।


शब्दकल्पद्रुमः

भल्ल || ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
लद्वयान्तः । ङ, भल्लते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भल्लः || पुं, (भल्लते इति । भल्ल + अच् ।)
भल्लूकः । इत्यमरः । २ । ५ । ४ ॥ (देशभेदः । यथा, बृहत्संहितायाम् । १४ । ३० । “ब्रह्मपुरदार्व्वडामर- वनराज्यकिरातचीनकौणिन्दाः । भल्लापलोलजटासुर- कुनठखषखोषकुचिकाख्याः ॥”)


शब्दकल्पद्रुमः

भल्लः || पुं, क्ली, (भल्लते हन्तीति । भल्ल + अच् ।)
शस्त्रभेदः । इति मेदिनी शब्दमाला च । भाला इति भाषा ॥ (यथा महाभारते । १ । १४० । ६ । “प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा । क्षुरनाराचभल्लानां विपाठानाञ्च तत्त्ववित् ॥” अनेन देहविद्धशल्यादिकमुद्धरति । यथा, —
“स च शल्योद्धरणकः प्रोच्यते वैद्यकागमे । नाराचबाणशूलाद्यैर्भल्लैः कुन्तैश्च तोमरैः ॥” इति हारीते प्रथमे स्थाने द्बितीयेऽध्याये ॥)



Correction: