वाचस्पत्यम्
भल्लातकतैल || सुश्रुतोक्ते भल्लातकफलच्यवनजाते तैलभेदे “दुरूढत्वात् तु शुक्लानां कृष्णकर्म हितं भवेत् । भल्ला- तकान्वासयेत् तु क्षीरे प्राङ्मूत्रभावितान् । ततो द्विधा छेदयित्वा लौहे कुम्भे निधापयेत् । कुम्भेऽन्यस्मि- न्निखाते तु तं कुम्भमथ योजयेत् । मुखं मुखेन स- न्धाय गोमयैर्दाहयेत् ततः । यः स्नेहश्च्यवते तस्मा- द्ग्राहयेत् तं शनैर्भिषक् । ग्राम्यानूपशफान्दग्धान् सूक्ष्मचूर्णानि कारयेत् । तैलेनानेन संसृष्टं शुक्लमालेप- येद् व्रणम् । मल्लातकविधानेन सारस्नेहांस्तु कार- येत् । ये च केचित् फलस्नेहा विधानं तेषु कीर्त्तितम् । दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् । सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम् । तेनैव पिष्टं सुश्लष्णं सवर्णकरणं हितम्” ।