संस्कृत-शब्दकोशः

भल्लातकतैल भल्लातकविधान

भल्लातकलौह

वाचस्पत्यम्

भल्लातकलौह ||‍ न० चक्रदत्तोक्ते भल्लातकादिपक्वे लौहरूपे औषधभेदे “चित्रक त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता । हस्ति- पिप्पल्यपाभाण्टण्डोत्पलकुठेरकाः । एषां चतुप्पलान् भागान् जलद्रोणे विपाचयेत् । भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत् । तेन पादावशेषेण लौहपात्रे पचेद्भिषक् । तुलार्द्धं तीक्ष्णलौहस्य घृतस्य कुडवद्वयम् । त्र्यूषणं त्रिफलावह्निसेन्धवं विडमौद्भिदम् । सौवर्च- लविडङ्गानि पलिकांशानि कल्पयेत् । कुडवं वृद्धदारस्य तालमूल्यास्तथैव च । शूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिः क्षिपेत् । सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम् । प्रातर्भोजनकाले च ततः स्वादेद् यथाबलम् । अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम् । क्रिमिगुल्मा- श्मरीमेहान् शूलञ्चाशु व्यपोहति । करोति शुक्रोप- चयं बलीपलितनाशनम् । रसायनमिदं श्रेष्ठं सर्व- रोगहरं परम्” ।



Correction: