संस्कृत-शब्दकोशः

भल्लातकलौह भल्लातकी

भल्लातकविधान

वाचस्पत्यम्

भल्लातकविधान ||‍ सुश्रुतोक्ते सहस्रतत्फलसेवनप्रकारभेदे “अत ऊर्द्ध्वं भल्लातकंविधानमुपदेक्ष्यामः । मल्लातकानि परिपक्वान्यनुपहतान्याहृत्यैकमादाय द्विधा त्रिधा चतुर्द्धां वा छेदयित्वा कषायकल्पेन विपाच्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत ततोऽपराह्णे क्षीरं सर्पिरोदन इत्याहार एवमेकैकं वर्द्धयेत् तावद्- यावत्पञ्चेति ततः पञ्च पञ्चाभिवद्धयद्यावत् सप्ततिरिति प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत्पञ्चेति पञ्चभ्यश्चैकैकं यावदेकमिति । एवं भल्लातकसहस्र- मुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलबानरोगः शतायु- र्भवति । द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्यु- तितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत जीर्णे पूर्ववदाहारः फलप्रकर्षश्च । भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमा- गारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं चोपयुञ्जीत । तस्मित् जीर्णे क्षीरं सर्पिरोदन इत्याहारः” ।



Correction: