वाचस्पत्यम्
भल्ली || स्त्री भल्ल हिंसे अच् गौरा० ङीष् । भल्लातके शब्द- रत्ना० तत्फलस्य स्पर्शिनां व्रणकारितया हिंसकत्वा- त्तस्यास्तथात्वम् । स्वार्थे क भल्लिका तत्रार्थे शब्दच० ।
शब्दकल्पद्रुमः
भल्ली || त्रि (भल्ल + गौरादित्वात् ङीष् ।)
भल्ला- तकः । इति शब्दरत्नावली ॥ (अस्याः पर्य्यायः । “भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करोऽग्निकः । तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)