वाचस्पत्यम्
भल्लु(ल्लू)क || पु० स्त्री भल्ल—उ(ऊ) क । (भालूक) १ जन्तुभेदे अमरः स्त्रियां ङीष् । २ श्योनाकभेदे राजनि० । स च वीरभल्लादिगणे सुश्रुते उक्तः । द्रव्यगणशब्दे दृश्यम् । ३ कोषस्थे जलजन्तुभेदे “शङ्खशङ्खनखशुक्तिशम्बूकभल्लूक- प्रभृतयः कोशस्थाः” सुश्रुतः ।
शब्दकल्पद्रुमः
भल्लुकः || पुं, (भल्लूक + पृषोदरादित्वात् ह्रस्वः ।)
भालूकः । इत्यमरः ॥