संस्कृत-शब्दकोशः

भल्लुक भव

भल्लूक

वाचस्पत्यम्

भल्लूक is an alternate of भल्लुक. भल्लु(ल्लू)क ||‍ पु० स्त्री भल्ल—उ(ऊ) क । (भालूक) १ जन्तुभेदे अमरः स्त्रियां ङीष् । २ श्योनाकभेदे राजनि० । स च वीरभल्लादिगणे सुश्रुते उक्तः । द्रव्यगणशब्दे दृश्यम् । ३ कोषस्थे जलजन्तुभेदे “शङ्खशङ्खनखशुक्तिशम्बूकभल्लूक- प्रभृतयः कोशस्थाः” सुश्रुतः ।


शब्दकल्पद्रुमः

भल्लूकः || पुं, (भल्लते इति । भल्ल + “उलूकादयश्च ।” उणा० ४ । ४१ । इति ऊकप्रत्ययेन साधुः ।)
जन्तुविशेषः । भालूक इति भाषा । तत्पर्य्यायः । ऋक्षः २ भल्लः ३ सशल्यः ४ दुर्घोषः ५ भल्लुकः ६ पृष्ठदृष्टिः ७ द्राघिष्ठः ८ दीर्घकेशः ९ चिरायुः १० दुश्चरः ११ दीर्घदर्शी १२ । इति राज- निर्घण्टः ॥ भालुकः १३ भालूकः १४ अच्छः १५ भाल्लूकः १६ भीलूकः १७ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १२ । ११६ । ६ । “सिंहव्याघ्रगणाः क्रूरा मत्ताश्चैव महागजाः । द्वीपिनः खड्गभल्लूका ये चान्ये भीम- दर्शनाः ॥” कोशस्थप्राणिविशेषः । तद्यथा, —
“शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः को- शस्थाः ।” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
श्योनाकप्रभेदः । (यथास्य पर्य्यायः । “श्योनाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः । दीर्घवृन्तश्च कट्वङ्गो भल्लूकष्टुण्टकोऽरणुः ॥” इति वैद्यकरत्नमाला ॥)
कुक्कुरः । इति राजनिर्घण्टः ॥



Correction: