वाचस्पत्यम्
भव || पु० भवत्यस्यात् भू—अपादाने अप् । १ महादेवे तस्य तन्नामनिरुक्तिः शत० ब्रा० ६ । १ । ३ । १५ । “तमब्रवीद्भवी- ऽसीति । तद्यदस्य तन्नामाकारोत्पार्जन्यन्तद्रूपमभवत् पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वं भवति सोऽब्रवीज्ज्या- यान् वाऽतोऽस्मि धेह्येव मे नामेति” जलस्य पर्जन्यहेतु- कत्वात् तस्य जलमूर्त्तित्वम् । अतएवास्याष्टमूर्त्तिमध्ये जलरूपेण भवनाम्ना तस्यार्चा । भावे अप् । २ जन्मनि ३ उत्पत्तौ ४ प्राप्तौ ५ संसारे मेदि० । कर्त्तरि अच् (चालता) ६ फले न० राजनि० ।
शब्दकल्पद्रुमः
भवं || क्ली (भवति भूयते वा । भू + अच् अप् वा ।)
भव्यम् । इति राजनिर्घण्टः ॥ चाल्ता । इति भाषा ॥
शब्दकल्पद्रुमः
भवः || पुं, (भूयते इति । भू + भावे अप् ।)
जन्म । (यथा, याज्ञवल्क्ये । ३ । १६४ । “भवो जातिसहस्रेषु प्रियाप्रियविपर्य्ययः ॥” भवत्यस्मादिति । भू + अपादाने अप् । शिवः । इत्यमरः ॥ यथा, शतपथब्राह्मणे । ६ । १ । ३ । १५ । “तमब्रवीद् भवोऽसीति तद्यदस्य तन्नामा- करोत्पर्जत्र्यस्तद्रूपमभवत् पर्जन्यो वै भवः ॥”)
स च जलमूर्त्तिः । यथा, —
“भवाय जलमूर्त्तये नमः ।” इति पार्थिवशिवलिङ्गपूजाप्रयोगः ॥ (भवति प्रभवत्यनेनेति । भू + अप् ।)
क्षेमः । (यथा, महाभारते । १ । २२१ । २८ । “को हि नाम भवेनार्थी साहसेन समाचरेत् ॥” भवति उत्पद्यतेऽस्मिन्निति । भू + आधारे अप् ।)
संसारः । (यथा, मार्कण्डेये । १९ । ७ । “अनघस्त्वं तथैवेयं देवी सर्व्वभवारणिः ॥”)
सत्ता । प्राप्तिः । इति मेदिनी ॥