संस्कृत-शब्दकोशः

भवित भवितव्यता

भवितव्य

वाचस्पत्यम्

भवितव्य ||‍ न० भू—भविष्यति कर्त्तरि च नि० तव्यत् । अवश्य भव्ये “भवितव्यं भवत्येव यद्विधेर्मनसि स्थितम्” ।


शब्दकल्पद्रुमः

भवितव्यं || त्रि भवनीयम् । भव्यम् । इति भवि- ष्यत्काले कर्म्मणि भावे शक्यार्हप्रेष्यानुज्ञाप्राप्त- कालार्थे च भूधातोस्तव्यप्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ यथा, वह्निपुराणे । “न भवद्भ्यामहं शोच्यो नायं राजापराध्यति । भवितव्यमनेनैव येनाहं निधनं गतः ॥”



Correction: