वाचस्पत्यम्
भविष्णु || त्रि० भू—इष्णुच् । भवनशीले अमरः ।
शब्दकल्पद्रुमः
भविष्णुः || त्रि (भू + “भुवश्च ।” ३ । २ । १३८ । इति इष्णुच् । भवतेर्धातोश्छन्दसि विषये तच्छीला- दिषु इष्णुच् प्रत्ययो भवतीति काशिका ।) भविता । इत्यमरः ॥