संस्कृत-शब्दकोशः

भागजाति भागलक्षणा

भागधेय

वाचस्पत्यम्

भागधेय ||‍ न० भाग + स्वार्थे धेय अभिधानात् नपुं सकत्वम् । १ भाग्ये । भागेन धीयतेऽसौ धा—कर्मणि यत् । २ राजदेये करे पु० अमरः । भागो धीयतेऽस्मै धा—सम्प्रदाने यत् । ३ दायादे सपिण्डे अजयपालः ।


शब्दकल्पद्रुमः

भागधेयं || क्ली (भाग एव । भाग + “भागरूप- नामभ्यो धेयः ।” इति धेयप्रत्ययः । अभिधाना- न्नपुसकत्वम् ।)
भाग्यम् । इत्यमरः । १ । ४ । २८ ॥


शब्दकल्पद्रुमः

भागधेयः || पुं, (भागेन धीयते इति । धा + कर्म्मणि यत् ।)
राजकरः । इत्यमरः । २ । ८ । २७ ॥ दायादः । इत्यजयपालः ॥



Correction: