संस्कृत-शब्दकोशः

भाग भागधेय

भागजाति

वाचस्पत्यम्

भागजाति ||‍ स्त्री । भागस्य विभजनस्य प्राकारभेदे सा च चतु- र्विधा भागजातिः प्रभागजातिः भागानुबन्धो भागा- पवाहश्च तत्र अंशानां समछेदकरणं भागजातिः इत्युच्यते । यथा “अन्योऽन्यहराभिहतौ हरांशौराश्योः समच्छेदविधानमेवम् । मिथोहराभ्यामपर्त्ति ताभ्यां यद्वा हरांशौ सुधियात्र गुण्यौ” लीला० । भागस्य भागः प्रभागो यथा “लवालवघ्नाश्च हराहरघ्नाः भागप्रभागेषु सवर्णनं स्यात्” । लीला० । भागस्यानुबन्धो योजनं भागानु- बन्धो भागावाहश्च तद्वियोजनम् यथा । “छेदघ्नरूपेषु लवा धनर्णमेकस्य भागा अधिकोनकाश्चेत् । स्वांशाधिकोनाः खलु यत्र तत्र भागानुबन्धे च लवापवाहे । तलस्थहारेण हरं निहन्यात् स्वांशाधिकोनेन न तु तेन भागान्” लीला०



Correction: