वाचस्पत्यम्
भाण्ड || न० भाण्ड—अच् भण—ड—स्वार्थे अण् वा । पात्रे १ तैलाद्याधारे २ भाजने (भाँड) “अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः” नारदः । ३ गृहभेदे (भाँडार) “ब्रह्माण्डभाण्डोदरेत्यादि” वीरचरितम् । ४ बणिजां मूल- धने ५ अश्वभूषायां मेदि० । ६ नदीकुलद्वयमध्ये पात्रे च हेमच० । ७ गर्दभाण्डे वृक्षे पु० शब्दच० । भण्डस्य भावः अण् । ८ भण्डचरित्रे न० (भाडामि) अजयः ।
शब्दकल्पद्रुमः
भाण्डं || क्ली (भण्यते भणति वेति । भण् शब्दे + “ञमन्ताड्डः ।” उणा० १ । ११३ । इति डः । ततः प्रज्ञादित्वादण् ।)
पात्रम् । (यथा, महा- भारते । १३ । ११ । १०२ । “हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥”)
बणिङ्मूलधनम् । भूषा । अश्वभूषा । इति मेदिनी । डे, २१ ॥ (यथा, महाभारते । ७ । २६ । २३ । “विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः । सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥”)
नष्टभाण्डस्य दण्डादिविधिर्यथा, —
“अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ भाण्डं व्यसनमागच्छेत् यदि वाहकदोषतः । दाप्यो यत् तत्र नश्येत्तु दैवराजकृतादृते ॥” इति मिताक्षरायां नारदः ॥ नदीकूलद्वयमध्यम् । इति हेमचन्द्रः । ४ । ९२ ॥ (भण्डते इति । भडि + अच् । भण्डस्तस्य भावः इत्यण् ।)
भण्डवृत्तिः । इत्यजयपालः ॥ भाँडामि इति भाषा ॥
शब्दकल्पद्रुमः
भाण्डः || पुं, गर्द्धभाण्डवृक्षः । इति शब्दचन्द्रिका ॥