शब्दकल्पद्रुमः
भामिनी || स्त्री (भामते इति । भाम् + णिनिः + ङीप् ।)
कोपना स्त्री । इत्यमरः । २ । ६ । ४ ॥ स्त्रीमात्रम् । इति राजनिर्घण्टः ॥ (यथा, भागवते । ९ । १८ । ६ । “एकदा दानवेन्द्रस्य शर्म्मिष्ठा नाम कन्यका । सखी सहस्रसंयुक्ता गुरुपुत्त्रा च भामिनी ॥” तुनयनामकगन्धर्व्वस्य दुहिता । यथा, मार्क- ण्डेयपुराणे । १२८ । ७ । “राजपुत्त्र ! सुतेयं मे भामिनी नाम मानिनी । अभिशापादगस्त्यस्य विशालतनयाभवत् ॥”)