शब्दकल्पद्रुमः
भामिनीविलासः || पुं, (भामिन्या विलासो यत्र ।)
जगन्नाथमिश्रपण्डितराजकृतकाव्यग्रन्थविशेषः । तस्याद्यश्लोकोऽयम् । “दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ तस्य पुष्पिका । इति श्रीमत्पण्डितराजजग- न्नाथविरचिते भामिनीविलासे प्रास्ताविकः प्रथमो विलासः । शृङ्गारवर्णनं द्वितीयो विलासः । श्रीकृष्णगुणानुवर्णनं तृतीयो विला- सश्च ॥