वाचस्पत्यम्
भामिन् || त्रि० भाम—णिनि । क्रोधयुक्ते स्त्रियां ङीप् । कोपनायां स्त्रियाम् स्त्री ङीप् अमरः ।
शब्दकल्पद्रुमः
भामी || [न्] त्रि, (भामः क्रोधोऽस्त्यस्येति । भाम + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनि ।)
क्रोधी । (तेजस्वी । यथा, ऋग्वेदे । १ । ७७ । १ । “कथा दाशेमाग्नये कास्मै देवजुष्ठोच्यते भामिने गीः ॥” “भामिने तेजस्विने ।” इति तद्भाष्ये सायनः ॥)