वाचस्पत्यम्
भार्य्या || स्त्री भृ—ण्यत् । १ विधिनोढायां स्त्रियाम् २ स्त्रीमात्रे ३ भरणीयमात्रे त्रि० । भार्य्याशब्दश्च यूपाहवनीयादिवत् अ- लौकिकसंस्कारसहितस्त्रीबोधकः । तस्याः गुणदोषा यथा “सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रियंवदा । सा भार्य्यां या प्रतिप्राणा सा भार्य्या या पतिव्रता । नित्यस्वाता सुगन्धा च नित्यञ्च प्रियवादिनी । अल्पभुक् खल्पभाषी च सततं मङ्गलैर्युता । सततं धर्मबहुला सततञ्च पतिप्रिया । सततं प्रियवक्त्री च सततं भर्तृ- कामिनी । पितृदेवक्रियायुक्ता सर्वसौभाग्यवर्द्धिनी । यस्येदृशी भवेद्भार्य्या देवेन्द्रो न स मानुषः” । ||“यस्य भार्य्या विरूपाक्षी कश्मला कलहप्रिया । उत्तरोत्तरवादा स्यात् सा जरा न जरा जरा । यस्य भार्य्या श्रितान्यत्र परवेश्माभिकाङ्क्षिणी । कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा । यस्य भार्य्या गुणज्ञा च भर्त्तारमनुगामिनी । अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया । दुष्टा भार्य्या शठो मित्रं भृं- त्याश्चोत्तरदायकाः । ससर्पे च गृहे वासो मृत्युरेव न संशयः । आपत्सु मित्रं जानीयात् युद्धे शूरं वने शुचिम् । भार्य्याञ्च विभवे क्षीणे दुर्भिक्षे च प्रिया- तिथिम्” । गारुडे १०८ । १०९ अ० । “वृहस्पतिरु- वाच “यस्य नास्ति सती भार्य्या गृहेषु प्रिय- बादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् । शुशीला सुन्दरी शान्ता गता यस्य गृहोद- रात् । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् । भावानुरक्ता वनिता हृता यस्य च शत्रुणा । अरण्यं तेन गन्तर्व्यृ यथारण्यं तथा गृहम् । दैवेनापहृता यस्य पतिसाध्या पतिव्रता । अरण्यं तेन गन्तव्यं यथा- रण्यं तथा गृहम् । यस्य माता गृहे नास्ति भार्य्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् । प्रियाशून्यं गृहं यस्य पूर्णं श्रीधन बन्धुभिः । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृ- हम् । भार्य्याशून्या वनसमाः सभार्य्याश्च गृहा गृहाः । गृहिणी च गृहं प्रोक्तं न गृहं गृहसुच्यते । अशुचिः स्त्रीविहीनञ्च दैवे पैत्रे च कर्मणि । यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् । दाहकशक्तिहीनश्च यथा मन्दो हुताशनः । प्रभाहीनो यथा सूर्य्यः शोभाहीनो यथा शशी । शक्तिहीनो यथा जीवो यथात्मा च तनुं विना । विनाधारं यथाधेयो यथेशः प्रकृतिं विना । न च शक्तो यथा यज्ञः फलदां दक्षिणां विना । कर्मिणे च फलं दातुं सामग्रीमूलमेव च । विना स्वर्णं स्वर्णकारी यथाऽशक्तः स्वकर्मणि । यथाऽशक्तः कुला- लश्च मृत्तिकाञ्च विना द्विजाः! । तथा गृही न शक्तश्च सन्ततं सर्वकर्मणि! भार्य्यामूलाश्च पुत्राश्च भार्य्यामूला गृहास्तथा । भार्य्यामूलं सुखं शश्वद् गृहस्थानां गृहे सदा । भार्य्यामूलो सदा हर्षः भार्य्यामूलञ्च मङ्गलम् । भार्य्यामूलश्च संसारो भार्य्यामूलञ्च सौरतम् । यथा रथश्च रुथिनां गृहिणाञ्च तथा गृहम् । सारथिस्तु यथा तेषां गृहस्थानां तथा प्रिया । सवरत्नप्रधाना च स्त्रीरत्नं दुष्कुलादपि । सा गृहीता गृहस्थेनैवेत्याह कमलो- द्भवः । यथा जलं विना पद्मं पद्मं शोभां विना यथा । तथैव च गृहं शश्वद् गृहिणां गृहिणीं विना” । ब्रह्मवै० पु० प्र० ख० ५६ अ० । “तोषयेत् सततं भार्य्या विधिवत् पाणिपीडिताः । तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा । सन्तुष्टो भार्य्यया भर्त्ता भर्त्रा भार्य्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् । यथा विरुद्ध्यते स्वामी सौभाग्यमद- दृप्तया । असतीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे । इहापि लोकेऽवाच्यत्वमधर्मञ्चापि विन्दति । न च पितृ- कुलं स्वामिकुलं तस्याः प्रमोदते । विरुध्यमाने पत्यौ यत् सपत्न्या वा प्रवर्त्तते । अतीव दुःखं भवति तदकल्याणा कृत्तयोः” कालिकापु० २० अ० ।
शब्दकल्पद्रुमः
भार्य्या || स्त्री (भरणीया इति । भृ + “ॠह- लोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । टाप् । यद्वा भया दीप्त्या आर्य्या ।)
वेदविधा- नेनोढा । विधिपूर्ब्बकविवाहिता । तत्पर्य्यायः । पत्नी २ पाणिगृहीती ३ द्वितीया ४ सह- धर्म्मिणी ५ जाया ६ दाराः ७ सहधर्म्मिणी ८ धर्म्मचारिणी ९ दारः १० कलत्रम् ११ कलत्रकम् १२ ॥ इति शब्दरत्नावली ॥ अस्याः प्रशंसा यथा, —
“सा भार्य्या या प्रियं ब्रूयात् स पुत्त्रो यस्तु जीवति । स जीवति गुणो यस्य धर्म्मो यस्य स जीवति ॥ गुणधर्म्मविहीनो यो निष्फलं तस्य जीवनम् ॥ सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रियंवदा ॥ सा भार्य्या या पतिप्राणा सा भार्य्या या पति- व्रता । नित्यस्नाता सुगन्धा च नित्यञ्च प्रियवादिनी ॥ अल्पभुक् स्वल्पभाषी च सततं मङ्गलैर्युता । सततं धर्म्मबहुला सततञ्च पतिप्रिया ॥ सततं प्रियवक्त्री च सततं ऋतुकामिनी । पितृदेवक्रियायुक्ता सर्व्वसौभाग्यवर्द्धिनी ॥ यस्येदृशी भवेद्भार्य्या देवेन्द्रो न स मानुषः ॥” अस्या दोषा यथा, —
“यस्य भार्य्या विरूपाक्षी कश्मला कलहप्रिया । उत्तरोत्तरवादा स्यात् सा जरा न जरा जरा ॥ य स्य भार्य्याश्रितान्यत्र परवेश्माभिकाङ्क्षिणी । कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥” “यस्य भार्य्या गुणज्ञा च भर्त्तारमनुगामिनी । अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ दुष्टा भार्य्या शठं मित्रं भृत्याश्चोत्तरदायकाः । ससर्पे च गृहे वासो मृत्युरेव न संशयः । आपत्सु मित्रं जानीयात् युद्धे शूरं वने शुचिम् । भार्य्याञ्च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥” इति गारुडे नीतिसारे १०८ । १०९ अध्यायौ ॥ (तथा च महाभारते । १ । ७४ । ३९ — ४५ । “सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रजावती । सा भार्य्या या पतिप्राणा सा भार्य्या या पतिव्रता ॥ अर्द्धं भार्य्या मनुष्यस्य भार्य्या श्रेष्ठतमः सखा । भार्य्यामूलं त्रिवर्गस्य भार्य्यामूलं तरिष्यतः ॥ भार्य्यावन्तः क्रियावन्तः सभार्य्या गृहमेधिनः । भार्य्यावन्तः प्रमोदन्ते भार्य्यावन्तः श्रियान्विताः ॥ सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः पितरो धर्म्मकार्य्येषु भवन्त्यार्त्ताश्च मातरः ॥ कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै । यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥ संस्मरन्तमपि प्रेतं विषमेष्वेकपातिनम् । भार्य्यैवान्वेति भर्त्तारं सततं या पतिव्रता ॥ प्रथमं संस्थिता भार्य्या पतिं प्रेक्ष्य प्रतीक्षते । पूर्ब्बं मृतञ्च भर्त्तारं पश्चात् साध्वनुगच्छति ॥”)
बृहस्पतिरुवाच । “यस्य नास्ति सती भार्य्या गृहेषु प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ सुशीला सुन्दरी शान्ता गता यस्य गृहोदरात् । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ भावानुरक्ता वनिता हृता यस्य च शत्रुणा । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ दैवेनापहृता यस्य पतिसाध्या पतिव्रता । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ यस्य माता गृहे नास्ति भार्य्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ प्रियाशून्यं गृहं यस्य पूर्णं स्त्रीधनबन्धुभिः । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ भार्य्याशून्या वनसमाः सभार्य्याश्च गृहा गृहाः । गृहिणी च गृहं प्रोक्तं न गृहं गृहमुच्यते ॥ अशुचिः स्त्रीविहीनश्च दैवे पैत्रे च कर्म्मणि । यदह्ना कुरुते कर्म्म न तस्य फलभाग्भवेत् ॥ दाहिकाशक्तिहीनश्च यथा मन्दो हुताशनः । प्रभाहीनो यथा सूर्य्यः शोभाहीनो यथा शशी ॥ शक्तिहीनो यथा जीवो यथात्मा च तनूं विना । विनाधारं यथा धेयो यथेशः प्रकृतिं विना ॥ न च शक्तो यथा यज्ञः फलदां दक्षिणां विना । कर्म्मिणे च फलं दातुं सामग्रीमूलमेव च ॥ विना स्वर्णं स्वर्णकारो यथाशक्तः स्वकर्म्मणि । यथाशक्तः कुलालश्च मृत्तिकाञ्चनवि द्विजाः ! ॥ तथा गृही न शक्तश्च सन्ततं सर्व्वकर्म्मणि । भार्य्यामूलाश्च पुत्त्राश्च भार्य्यामूला गृहास्तथा ॥ भार्य्यामूलं सुखं शश्वद्गृहस्थानां गृहे सदा । भार्य्यामूलः सदा हर्षो भार्य्यामूलञ्च मङ्गलम् ॥ भार्य्यामूलश्च संसारो भार्य्यामूलञ्च सौरतम् । यथा रथश्च रथिनां गृहिणाञ्च तथा गृहम् । सारथिस्तु यथा तेषां गृहस्थानां तथा प्रिया ॥ सर्व्वरत्नप्रधानञ्च स्त्रीरत्नं दुष्कुलादपि । सा गृहीता गृहस्थेनैवेत्याह कमलोद्भवः ॥ यथा जलं विना पद्मं पद्मं शोभां विना यथा । तथैव च गृहं शश्वद्गृहिणां गृहिणीं विना ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः ॥ तस्या अत्याज्यत्वं यथा, —
“अनपत्याञ्च युवतीं कुलजाञ्च पतिव्रताम् । त्यक्त्वा भवेद्यः सन्न्यासी ब्रह्मचारी यतीति वा ॥ बाणिज्ये वा प्रवासे वा चिरं दूरं प्रयाति यः । तीर्थाय तपसे वापि मोक्षार्थं जन्म खण्डितुम् ॥ न मोक्षस्तस्य भवति धर्म्मस्य स्खलनं ध्रुवम् । अभिशापेन भार्य्याया नरकञ्च परत्र च ॥ इहैव च यशोनाश इत्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११२ अः ॥ बहुभार्य्यस्यैकस्या भजने दोषादि यथा, —
“गदतो यत् श्रुतं पूर्ब्बं नारदाय पितुर्मुखे । दक्षस्य धर्म्मशास्त्रार्थं तत् शृणुष्व निशापते ! ॥ बहुदारः पुमान् यस्तु रागादेकां भजेत् स्त्रियम् । स पापभाक् स्त्रीजितश्च तस्याशौचं सनातनम् ॥ यद्दुःखं जायते स्त्रीणां स्वाम्यसम्भोगजं यथा । न तस्य सदृशं दुःखं किञ्चिदन्यद्धि विद्यते ॥ मतीमृतुमतीं जायां यो नेयात् पुरुषाधमः । ऋतुघस्रेषु शुद्धेषु भ्रूणहा स हि जायते ॥ भार्य्या स्याद्यावदात्रेयी तावत् कालं विरो- धकम् । तस्यास्तु सङ्गमे किञ्चित् विहितञ्चापि नाचरेत् ॥ बहुभार्य्यस्य भार्य्याणामृतुमैथुननाशनम् । न किञ्चिद्विद्यते कर्म्म शास्त्रेणापि यदीरितम् ॥ तोषयेत् सततं भार्य्या विधिवत् पाणिपीडिताः । तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा ॥ सन्तुष्टो भार्य्यया भर्त्ता भर्त्त्रा भार्य्या तथैव च । यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ यया विरुध्यते स्वामी सौभाम्यमददृप्तया । सपत्नीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे ॥ इहापि लोके वाच्यत्वमधर्म्मञ्चापि विन्दति । न च पितृकुलं स्वामिकुलं तस्याः प्रमोदते ॥ विरुध्यमाने पत्यौ यत् सपत्न्या वा प्रवर्त्तिते । अतीव दुःखं भवति तदकल्याणकृत्तयोः ॥” इति कालिकापुराणे २० अध्यायः ॥ रजस्वला भार्य्या अत्याज्या । यथा, —
“न धिनोतीह यो दारान् रजसा कलुषीकृतः । प्रेतपैत्र्याहृते कुण्डे रेतसाञ्च पिबत्यसौ ॥ यो जहाति रजः कृत्वा पित्र्यं स्वं तेजसा नरः । सोऽश्नाति फलमप्येवं यो न दद्यादृतुं पुनः ॥ यो बिभर्त्ति स मत्तो वै बहूनां रजसि स्थितः । रेतः पिबति तन्मग्नो पितृभ्यो योऽप्यपिण्डदः ॥ यो जहाति हि निर्द्दोषां भार्य्याञ्चैव रजस्वलाम् । शुद्धिमान् संवृतः कृत्तगर्भस्य दुरितं वहेत् ॥” इति वह्निपुराणम् ॥ कालविशेषे तद्गमननिषेधो यथा, —
“न दिवापि स्त्रियं गच्छेत् कदाचिदिच्छयापि च । न पर्व्वसु न सन्ध्यासु नाद्यर्त्तु चतूरात्रिषु ॥ नोदक्यां न दिवा गच्छेत् न सगर्भां न व्रत- स्थिताम् । अभिगच्छेदविद्वान् यस्तदायुःक्षयमेव च ॥ बन्ध्याष्टमे परित्याज्या नवमे च मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ न वक्त्रेऽभिगमं कुर्य्यात् पाणिग्राही तु योषितः । कुर्य्याच्चेत् पितरस्तस्य पतन्ति रेतसोभुजः ॥ भार्य्याधीनं सुखं पुंसां भार्य्याधीनो धनागमः । भार्य्याधीना मखोत्पत्तिर्भार्य्याधीनः सुखोदयः ॥ यत्र भार्य्या गृहं तत्र भार्य्याधीनो गृहे वसेत् । न गृहेणगृहस्थः स्यात् भार्य्यया कथ्यते गृही ॥” इति पराशरस्मृतिः ॥