वाचस्पत्यम्
भावविकार || पु० ६ त० । यास्कोक्तेषु उत्पत्तियुतपदार्थस्य जन्मादिषु षट्सु घर्मेषु “षड्भावविकारा भवन्तीति वार्ष्यायणिः, जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विन- श्यतीति, जायत इति पूर्बभावस्यादिमाचष्टे नापरभाव- माचष्टे न प्रतिषेधति अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति स्वाङ्गाभ्युच्चयं, सांयौगिकानां वार्थानां, वर्धते विजयेनेति वा वर्धते शरीरेणेति वा, अपक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिभाचष्टे न पूर्वभाव- माचष्टे न प्रतिषेधति” ।